Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ - तिन्ने० / 'तिरत्र उत्तरा' उत्तराफाल्गुन्यः 1 उत्तराषाढा : 2 2 उत्तराभद्रपदाश्च 3 पुनर्वसुः 4 रोहिणी 5 विशाखा 6 एतानि षण्नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चचत्वारिंशन्मुहूर्तसंयोगीनि भवन्ति / तथाहि-एतेषां सप्तषष्टिखण्डीकृत- स्याहोरात्रस्य सम्बन्धिनां भागानां शतमेकमेकभागस्याड़ क्षेत्रसीमायोगः / तत्रैषां भागानां मुहूर्तगतकरणार्थं भागशतं भागस्यैकस्यार्द्ध 9803 त्रिंशता गुण्यते जातानि पञ्चदशोत्तराणि त्रीणि सहस्राणि 3015, एतेषां सप्तषष्ट्या भागहारे लब्धाः पञ्चचत्वारिंशन्मुहूर्तास्तदेषां कालसीमा / / 89 / / अथ त्रिंशन्मुहूर्तचन्द्रयोगीनि पञ्चदशनक्षत्राण्याह अवसेसा नक्खत्ता, पन्नरस हवंति तीसइ मुहत्ता / चंदम्मि एस जोगो, णक्खत्ताणं मुणेयवो ||90|| अव 0 / 'अवशेषाणि' उक्तत्रयोदशव्यतिरिक्तानि श्रवण 1 धनिष्ठा 2 पूर्वभद्रपदा 3 रेवती 4 अश्विनी 5 कृत्तिका 6 मृगशिरः 7 पुष्य 8 मघा 9 पूर्वफाल्गुन्यः 10 हस्त 11 चित्रा 12 अनुराधा 13 मूल 14 पूर्वाषाढा 15 एतन्नामानि पञ्चदशापि नक्षत्राणि चन्द्रेण सह प्रत्येकं त्रिंशन्मुहूर्तसंयोगीनि भवन्ति / तथाहि-एतेषां नक्षत्राणां प्रत्येकं परिपूर्णानां सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भः, ते च त्रिंशद्गुणिता जाते द्वे सहर दशोत्तरे, ते च सप्तषष्ट्या भागे हृते लब्धास्त्रिंशदेव , तदेषां त्रिंशन्मुहूर्ताः कालसीमाप्रमाणम् / सूर्यस्यापि नक्षत्रयोगो गाथाभिरिमाभिज्ञेय :-''अभिइ छ च्च मुहत्ते , चत्तारि अ केवले अहोरते / सरेण समं गच्छड़, इत्तो सेसाण वुच्छामि / / 1 / / सयभिसया भरणीओ, अद्दा साइ जिल्हा य / वच्चंति महत्तेकवीसइ छ च्चेवऽहोरत्तो / / 2 / / तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य / वच्चंति मुहत्ततिगे, चेव वीसं अहोरते / / 3 / / अवसेसा णक्खत्ता, पन्नरस सूरं सह गया जंति / बारस चेव मुहत्ते , तेरस पुणे अहोरत्ते / / 4 / / 90 / / अथ नक्षत्रपटले सर्वमध्ये किम , उपरि किम् , अधश्च किं नक्षत्रम् ? इत्याह सबभंतर अभिई, मूलं पुण सव्वबाहिरे होई / / सब्बोवरिं तु साई, भरणी सव्वस्स हिट्ठिम्मि ||91 / / सव० / उत्तरस्यां दिशि जगतीतोऽशीत्यधिकशते सर्वाभ्यन्तरे / माण्डलेऽभिजिक्षत्रम् / पुनः सर्वबाह्ये मण्डले दक्षिणस्यां दिशि मूलं
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210