Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ तत्तो पडिवयबीआइदिणेसु रिक्खाइभेअमावहइ / इक्किक्कमुहत्तेण य, सूरा पिढे पडइ चंदो ||72 / / तत्तो प० / 'ततः तद्दिनानन्तरममावास्यातः प्रतिपद्वितीयादिदिनेषु चन्द्रो ऋक्षादीनां भेदं-अन्तरमावहति, नक्षत्रराशिमण्डलेभ्योऽन्तरं प्राप्नोतीत्यर्थः, तथा च प्रतिदिनमेकैकमुहूर्तेन सूर्यात्पृष्ठे पतति ||72 / / पुनः किं भवति ? इत्याह राहू वि अ पइदिअहं, ससिणो इक्किक्कभागमुज्झइ अ / इअ चंदो बीआइअदिणेसु, पयडो हवइ तम्हा / / 73 / / राहू वि० |राहरपि प्रतिदिवसमेकैकं पञ्चदशभागं 'उज्झइ' ति त्यजति, 'इति' अमुना प्रकारेण चन्द्रोऽपि द्वितीयादिषु दिनेषु तस्मात्प्रकटो भवति / भावना यथा-शुक्लप्रतिपादयस्तथैव , अमावास्यातो मण्डलादीनामन्तरं जायते , मन्दगतित्वेन सूर्यान्मुहूर्तेनैकेन चन्द्रः पृष्टे पतति ,राहुरप्येकं भाग मुञ्चति, परं सायं सूर्यकिरणावृतत्वेन न तथा सम्यग्दृग्गोचरमायाति / द्वितीयादिने सूर्योदयादनूदयेन द्वितीयभागमोचनेन मुहूर्तद्विकगम्यक्षेत्रपृष्ठपतनेन च सायं सूर्यादुरत्वाद् दृश्यते, एवं सर्वासु शेषतिथिषु ज्ञेयं पूर्णिमां यावत् / गतेः शीघ्रविभागस्त्वेवम्-सर्वमन्दगतिश्चन्द्रः, तस्माच्छीघ्रो रविः, तस्माद्ग्रहाः, तेभ्यो नक्षत्राणि, ततस्तारा: / ग्रहमध्ये तु बुधाच्छुक्रः शुक्रान्मङ्गलो, मङ्गलाद् बृहस्पतिवृहस्पतेः शनिः शीघ्र इति संग्रहणीवृत्तिगतम् / / 73 / / अथ पूर्णिमायां यत्स्यात्तदाह सयलो वि ससी दिसइ, राहुविमुक्को अ पुण्णिमादिअहे / सूरत्थमणे उदओ, पुवे पुवुत्तजुत्तीए ||74 / / सयलो० | पूर्णिमायां सकलोऽपि शशी राहुविमुक्तः सन् दृश्यते / सूर्यास्ते पूर्वस्यामुदयं प्राप्नोति, पूर्वोक्तयुक्त्या’ पञ्चदशमुहूर्तेः सूर्यात्पृष्टे पतितत्वेन / / 74 / / पूर्णिमायां विशेषमाह ससिसूरामिह पुण्णिमि, हुंति उ रासीण उभयसत्तमगे। बहुलपडिवयनिसाए, गए मुहत्ते हवइ उदओ / / 5 / / ससिसू० / सर्वास्वपि पूर्णिमासु शशिसूर्यौ परस्परं सप्तमराशौ भवतः, ----- -
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210