Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ दिवसकरौ सर्वाभ्यन्तरे सन्तौ दीप्तलेश्यौ' भास्वत्तेजसौ तापयतः / एकैकसूर्यस्य भागत्रयप्रमिततापक्षेत्राभिधानात् / / 35|| चत्ता० / तथा चतुरो दशभागान् .. जम्बूद्वीपस्य द्वौ दिवसकरौ सर्वबाह्ये सन्तौ 'मन्दलेश्यौ' मन्दतेजसौ तापयतस्तथाजगत्स्वाभाव्यात् / / 36 / / अथ सर्वाभ्यन्तरे दशभागानां मध्यादेकैकभागस्य योजनकरणं गाथाद्वयेनाह एगारस अडतीसे, वज्जित्तु सयाइ दीवपरिहीए / सेस दसेहि विभत्ते, जं लद्धं तं इमं होइ ||37|| इगतीससहस्साइं, सयाइमट्ठाहिआ तह पंच | चउपन्नसट्ठिभागा, छहि गुणणे अंसछेआणं ||38 / / एगा० / एकादशशतान्यष्टात्रिंशदधिकानि 1138 'जम्बूद्वीपपरिधेः 316227 वर्जयित्वा' जम्बूद्वीपपरिधिमध्यात् 1138 कृष्यन्त इत्यर्थः, शेषे' सर्वाभ्यंतर मंडलपरिधिरुपे 315089 दशभिर्भक्ते यल्लब्धं तद् इदं वक्ष्यमाणं भवति / यतः सर्वाभ्यन्तरं मण्डलंजगतीतोऽशीत्यधिकयोजन-शतेनार्वाग, तत् उभयो : पार्श्वयोरपेक्षया तदक् द्विगुणीकृत्य 360, तच्च वर्गयित्वा दशगणं क्रियते , तदनु करणीकरणे 1138 भवन्तीति / / 37 / / इग० / एकत्रिंशत्सहरत्राण्यष्टाधिकानि पञ्चशतानि योजनानां चतुष्पञ्चाशच्च षष्टिभागा योजनस्य / ते च कथं जाता: ? 'छहि गुणणे अंसछेआणं' ति सर्वाभ्यन्तरमण्डलपरिधिदशमभागयोजनराश्या गमनानन्तरमवस्थितयोरंशच्छेदराश्योर्नवकदशरुपयोः 9. षड्भिर्गुणने जाताः 10, ततो दशस्वपि भागेषु प्रत्येकं योजनान्यंशाश्च भवन्ति 3150810, तद्दशगुणने मण्डलपरिधिर्भवति / एवं द्वितीयादिसर्वमण्डलेषु तत्तन्निजनिजपरिधेरनुसारेण दशभागा: स्वबुद्ध्या विचार्या: / / 38 / / अथोत्कृष्टदिवसे जम्बूद्वीपवर्तिनो मनुष्याः कियटूरतः सूर्यमुदयन्तं पश्यन्ति ? इति गाथाद्वयेनाह एअस्स य रासिस्स य, तिगुणत्ते जो पुणो हवइ रासी / कक्कडचारो रविणो, उदयत्थमणेसु तस्सद्धा / / 39 / / / सीआलीससहस्सा, दो अ सया जोअणाण तेवट्ठा / / इगवीससट्ठिभागा, कक्कडमाइम्मि पिच्छ नरा ||40 / / 130 TA 130
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210