Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ राई भवइ ? , हंता गोयमा ! / एवं कालोए वि पुक्खरड्ढे वि / '' इत्यादि, काक्वा उद्देशकोऽवगाह्यः / / 59 / / अथ प्रतिद्वीपं प्रतिसमुद्रं कति दिवसा : 00 कति रात्रयश्च भवन्ति ? इत्याह दीवसमुद्देसु सया, रविप्पमाणा य वासरा हुंति / रयणीउ चंदसंखा, समसेणीए मणुअलोए ||60|| दीव० | नरलोकवर्तिसार्द्धद्वयद्वीपे समुद्रद्वये च यावन्तः सूर्यास्तावन्तो वासरा भवन्ति / भावना यथा-जम्बूद्वीपे मेरोरुभयतः समश्रेण्या द्वौ वासरौ, एवं लवणे एकैकपाधै उभय(द्वय)संभवाच्चत्वारः, धातकीखण्डे द्वादश, कालोदे द्विचत्वारिंशत् , पुष्करा॰ द्वासप्ततिः, एवं सर्वेऽपि द्वात्रिंशदधिकं शतं वासरा : सम्बद्धा समश्रेण्या भवन्ति, सर्वेषां सूर्याणां समकं चलनात् षष्ठ्या मुहूर्तेरेव मण्डलपूरणाच्च / तेषां मुहर्तगतिमानादिकं मण्डलपरिधे: षष्ठिभागहारैर्बोध्यम् / तथा चन्द्रप्रमाणा रात्रयोऽपि द्वात्रिंशदधिकं शतम् / तेषां मुहूर्तगतिमानादिकं साधिकद्वाषष्टिमुहूर्ते यम् / / 60 / / अथ यदा कर्कसङ् क्रान्तौ भरतेऽष्टादशमुहूर्तं दिनमानं तदा पश्चिमविदेहैरावतपूर्वविदेहादिष्वियन्मानमुतान्यथा ? इति प्रश्नस्योत्तरं गाथाद्वयेनाह पुव्वविदेहे सेसे, मुहुत्ततिगि वासरे निरिक्खंति / भरहनरा उदयंतं, सूरं कक्कस्स पढमदिणे // 61 / / भरहे वि मुहुत्ततिगे, सेसे पच्छिमविदेहमणुआ वि / एरवए वि अ एवं , तेण दिणं सव्वओ तुल्लं ||62 / / पुव० / पूर्वविदेहक्षेत्रे मुहूर्तत्रिकप्रमाणदिने सति कर्काद्ये दिने सूर्यमुदयन्तं भरतनराः भरतक्षेत्रवासिनो जनाः पश्यन्ति ||61 / / भर० / भरतक्षेत्रेऽपि मुहूर्तत्रिकप्रमाणे शेषे अवशिष्यमाणे दिने सति कर्काद्ये दिने पश्चिमविदेहमनुष्याः सूर्यमुदयन्तं पश्यन्ति / एवं अमुना प्रकारेण पश्चिमविदेहक्षेत्रे मुहूर्तत्रिके सति ऐरवतवासिनो नरा उदितं पश्यन्ति , ऐरवतेष्वपि मुहूर्तत्रिके पूर्वविदेहमनुष्याश्च , ततोऽग्रेतनक्षेत्रे मुहूर्त्तत्रिके दिने चटिते पाश्चात्यक्षेत्रे सूर्योऽस्तमेतीत्यर्थः / यथोदयवेलासम्बन्धि मुहूर्त्तत्रिकं लब्धं तथास्तसमयादर्वाग्मुहूर्त्तत्रिकं लभ्यते, अतः सर्वत्र क्षेत्रे सर्वाभ्यन्तरे वर्तमाने सूर्येऽष्टादशमुहूर्त तुल्यमेव , रात्रिश्च
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210