Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ एवं० / 'एवं पूर्वोक्तप्रकारे सति तेषां सूर्याणां मकरे सर्वबाह्यान्मण्ड2 लान्मध्ये प्रविशतां कर्के च सर्वाभ्यन्तराद्वहिर्निस्सरतां दिवसानां त्र्यशीत्यधिकशतेनानुक्रमश एकैको दशांशो वर्धते हीयते च / वृद्धिहानियोजनसंख्या दशमभागयोजनसंख्या च तत्तद्वीपसमुद्राणां मध्यबाह्यपरिध्यनुसारेण वाच्या / / 46 / / अथ जम्बूद्वीपादन्यरवीणां मण्डलसंख्या मण्डलान्तरप्रमाणं चारक्षेत्रविष्कम्भमानं चाह सव्वेसि पि रवीणं, सव्वेसिं मंडलाण अन्नुन्नं / दोजोअणंतरालं, पंचसयदहुत्तरो चारो ||47 / / सब्वे० / सर्वेषां रवीणां चतुरशीत्यधिकशतसंख्यानां मण्डलानामन्तरं प्रत्येकं द्वे योजने , चारक्षेत्रविष्कम्भस्तु दशोत्तराणि पञ्चशतयोजनानि ज्ञेयानि / अष्टचत्वारिंशदेकषष्टिभागास्तु स्तोकत्वान्नोक्ताः / अथवा प्रथममण्डलस्यान्त्यमण्डलस्य वा चाराभावादष्टचत्वारिंशन्नोक्ता : जम्बद्वीपाधिकारे चोक्ताः परमार्थस्त्वेक एव / / 47 / / अथ शेषचन्द्राणां चारक्षेत्रमानादिस्वरुपमाह इगसटुंसतिवन्ना, चंदाणं पंचनवहिअसयाइं / अट्ठहिं भागेहि जओ, अब्भहि मण्डलं ससिणो ||48 / / इग० / जम्बूद्वीपचन्द्राणामपि प्रत्येकं मण्डलानि पञ्चदशैव , तेषां मण्डलानां भूमिरन्तरं च सातिरेकाणि पञ्चत्रिंशद्योजनानि 35 30, एतस्मिन् चतुर्दशगुणे कृते समस्तं चारक्षेत्रं नवाधिकपञ्चशतयोजनमितं त्रिपञ्चाशच्चैकषष्टिभागयुतं 50946 , यतः कारणादष्टभिर्भागैरधिकं सूर्यबिम्बाच्चन्द्रबिम्बं षट्पञ्चाशद्भाग-मानत्वात् / अत्रापि विमानाक्रान्तभूमेरगणनादष्टचत्वारिंशद्भागानामकथनेऽपि पूर्वोक्तेन सह न विरोध: / / 48 / / अथ सर्वेषु क्षेत्रेषु दिक्चतुष्कनिर्णयस्वरुपं गाथायुगलेनाह जस्स जओ आइच्चो, उदेइ सा तस्स होइ पुबदिसा / जत्थ वि अ अत्यमेई, अवरदिसा सा उ नायव्वा ||49|| V दाहिणपासम्मि अ दाहिणा उ वामेण उत्तरा होइ / एआओ तावदिसा, सव्वेसिं उत्तरो मेरु ||50||
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210