Book Title: Aram Nandan Katha Author(s): Gautamvijay Publisher: Jain Sangh Boru View full book textPage 5
________________ wink...... ॥ श्री गौतमगणधराय नमः ।। ॥ श्री सम्यक्त्वशुद्धिविषये आरामनंदनकथा ॥ इहैव जम्बूद्वीपाख्ये, द्वीपेऽर्धशशिसत्रिभम् । अस्ति धीभरतक्षेत्रं, भालवभूमृगीदृशः॥१॥ तत्र लक्ष्म्या व क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु:षु, पुन्नागाः सन्ति सत्फलाः ॥२॥ तत्रासीत् त्रासिताराति-विक्रमो विक्रमो नृपः । यत्प्रताजितोऽधापि, सविता सेवते नमः ॥३॥ तस्य प्रसादप्रासाद-निर्विवादनिवासिनः, चत्वारः सोदरा आस-नुपाया इव नैगमाः ॥४॥ आद्यो विमलबुद्ध्याह्वो, द्वितीयो बुद्धिसागरः, तार्तीयीकः सुबुद्धिस्तु, तुर्यो विशालबुद्धिकः ।।५।। विशालबुद्धिनाम्नस्तु, स्वप्राणेभ्योऽप्यतिप्रिया, वस्त्रतर्जितपद्मश्री, पद्मश्रीरजनि प्रिया ॥६।। साऽन्येद्युज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् , वीक्ष्य जन्मविवाहादि । महानेवमचिन्तयत् ॥७॥ एतास्वमधन्गास्मि, यस्या नैकोऽपि नन्दनः। येन मे मन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः॥८॥ अतस्तनूभवाभाव-यमानमनाः सदा, गृहोपचनिकां गत्वा, पद्मश्रीररुदत्तराम् ॥९॥ सुदतीं रुदतीमेत्य, कदाचित् कापि वानरी । नदुःखदुःखितेवाख्यत् किमर्थ सखि ! रोदिषि ? ॥१०॥ पद्मश्रीरपि तां स्माह, सखीन्दुप्रतिमामिव । वन्ध्यामिधः कलको मां, सकलामपि बाधते ॥ ११॥ ततः सञ्जातकारुण्या, महारण्यात् महौषधीम् । आनीय वानरी तस्यै, वितीर्यैवमवोचत ॥१२॥ सख्यमूष्यां महौषध्या-मावस्तानवासरे। नीरेण पिष्ट्वा पीतायां, भावी ते गर्भसम्भवःPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28