Book Title: Aram Nandan Katha
Author(s): Gautamvijay
Publisher: Jain Sangh Boru

View full book text
Previous | Next

Page 25
________________ स्मृत्वा पञ्चनमस्कृतिम् । सा स्ववर्गाशु(श्रुभिः सार्द्ध-मदाज्झम्पां चितानले ॥३३९॥ अथोद्यानसुतो वेगा-दागतो नर्मदातटे । धृमव्याप्तं नभोऽपश्य-चितां च ज्वलदग्निकाम् ॥३४०॥ क्रदतः स्वजनांस्तत्र, वीक्ष्यासावित्यचिन्तयन् । वहौ प्रियाऽपतत् स्वभ्रे, मनोरथरथश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्यो-पांशु मुक्त्वा च कञ्चकम् । कान्ताचितासमीपस्थो, वनमूरित्यभापत ।। ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्यषा प्राणवल्लभा । तदैतस्यां ममापि स्या- शु श्रेयःपरम्परा ॥३४३।। इयुदीर्य प्रियामृत्यु-पापव्ययकृते कृती। सोऽज्ञातः स्वजनैज्ञम्पा-पातं वैश्वानरेऽकरोत् ॥३४४॥ : थानुगैर्युध्यमान-विद्याधरभटेमिथः । वेतालसुभटैश्चापि, तथास्थः स व्यलोक्यत ।। ३४५ ।। ततो जजल्पतुर्विद्या-धरं साश्चर्यमानसे । कञ्चुकं केकिनं मुक्त्वा, चौरः किमकरोद् इदम् ॥३४६॥ चेतालोऽप्यब्रवीद् युद्धा, यदर्थ क्लेशमासदम् । प्राणप्रियः सखा सोऽयं, बहावसाय हाविशत् ॥३४७॥ आगच्छतश्चिताभ्यणे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोका., किमेतदिति ? सम्भ्रमात् ।।३४८॥ चतुरङ्गचमूयुक्तो, योदुकामो नृपोऽपि हि । वैतालखेचरानीका-भिमुखं वेगतोऽचलत् ॥३४९॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत् कञ्चुकं दारु-मयूरं च महीस्थितम् ॥३५०॥ अस्मद्भियान्यहेतोर्वा, प्राविशत् तस्करश्चिताम् । इतीव यावत् तां द्रष्टुं, लनेते खेचरप्रिये ॥ ३५१ ।। तावद्वनभुवं तत्र, प्रियापद्मावतीयुतम् । अक्षताङ्गं निरीक्ष्योमे, खेचर्याविदमृतुः ॥ ३५२ ।। अहो अहो प्रविष्टोऽपि, यदेषोऽनौ सवल्लभः । स्वर्णासने स्थितो हंस-युग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोचानमानसाः। वेताला खेचरा राजा, स्वजनाश्च समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशील-माहात्म्यं यदियं चिता प्रज्वलज्वलनज्वाला, जालाप्यजनि शीतला ॥ ३५॥ इति बन्दिष्विवैतेषु, जल्पत्सु वनसूस्ततः ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28