________________
युक्त्यनुशासन। यार्यादेशादाकाशस्यापि कार्यद्रव्यत्वसिद्धेः स्याद्वादिनां सर्वथा नित्यस्य कस्यचिदर्थस्याभावात् । खस्यानंशत्वाप्रसिद्धौ चानशं सामान्यं सर्वगतत्वादाकाशवदित्यत्र साध्यशन्यत्वादुदाहरणस्य नातःसामान्यस्य निरंशत्वसिद्धिः। सर्वगतत्वादित्यस्य हेतोरसिद्धलाज न हि सामान्यं सर्व सर्वगतं प्रमाणत: सिद्धं । रूसामहासामान्यं सर्व सर्वगतं सिद्धमेव सर्वत्र सत्मत्ययहेतुत्वादिति चेत् न, तस्यानंतव्यक्तिसमाश्रयस्यैकस्य प्राहकप्रमाणाभावात् । तदेवाहुः सूरयः-- ___'मानं च नानंतसमाश्रयस्य" इति । न हानंतसद्व्यक्तिग्रहणमन्तरेण तत्र सकृत् सन्नितिप्रत्ययस्यो. पत्तिरसर्वविदां संभवति यतः सर्वत्र सत्प्रत्ययहेतुत्वं सिद्धयेत् । तदसिद्धौ च न तदनुमानं प्रमाण सामान्यस्यानंतसमाश्रयस्यास्तीति न कृत्स्नविकल्पतो वृत्तिः सामान्यस्य सामान्यबहुत्वप्रसंगादिति स्थितं । एतेन व्यक्तिसर्वगतं सामान्यं कृत्स्नतः स्वाश्रयेषु प्रवर्तत इति वदन्नपि निरस्तः तस्याप्यनंतव्यक्तिसमाश्रयस्य मानाभावाविशेषात् । एतेन देशतः सामान्यस्य स्वाश्रयेषु वृत्तिरित्यपि विकल्पोषिता, देशतो. ऽनंतेषु स्वाश्रयेषु युगपत्सामान्यस्य वृत्तिरित्यत्र प्रमाणाभावात, ततोऽस्मिन्नपि पक्षे "मानं च नानंतसमाश्रयस्य" इति संबंधनीयं । सप्रदेशत्वप्रसंगाच सामान्यस्य न चैवमभ्युपगन्तु युक्तं स्वसिद्धान्तविरोधात् तस्य निरंशत्ववचनात् । ततो नैकं सामान्यममेयरूपं कुतश्चित्यमाणात्सिद्धं यतस्तदमेयमेव न स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org