________________
[१०१]
" तथाभूतां दृष्ट्वा नृपसदसि पाचालतनयां, वने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं, गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषुः ॥ " इति ।
99
अत्र श्लोके " नाद्यापि कुरुषु 99 इत्यत्र काकोः प्रश्नाभिव्यञ्जकत्वमपि, अन्यथा " मयि न योग्यः खेद: (अप्रियत्वेन ज्ञानम् ) कुरुषु तु योग्य: इत्यस्य काकुव्यङ्ग्यस्य वाच्यसिद्धयङ्गत्वेन काव्यस्यास्य गुणीभूतव्यङ्ग्यत्वं स्यात् प्रश्नाभिव्यञ्जकत्वे तु तेनैव व्यङ्ग्येन वाच्यसिद्धौ पूर्वोक्तस्य व्यङ्ग्यस्यार्थस्य वाच्यसिद्धयङ्गत्वा - भावेन न गुणीभूतव्यङ्गयत्वमपि तु ध्वनित्वमेवेत्येतत्सर्वं काव्यप्रकाशे तृतीयोल्लासे स्पष्टमिति ॥ ३७ ॥
नचादर्शनतोऽस्यैत्र, साम्राज्यस्यैव नास्तिता । सर्वैरदर्शनं चास्य, पूर्वमेव निराकृतम् ॥ ॥ ३८ ॥
(अन्वयः) अध्य, एव, अदर्शनतः, साम्राज्यस्य, एव, नास्तिता, न, च, च, अस्य, सर्वैः, अदर्शनम्, पूर्वम्, एव, निराकृतम् ।
वृत्तिः — अस्य - तस्य, सर्वज्ञाधिकरणका सर्वज्ञत्वज नितगुणकर्मकावलोकनाभाववतः पुंस इति यावत् । इदं शब्दस्य तच्छन्दार्थबोधकत्वं पूर्वपक्षनिरूपणप्रसङ्गे पूर्वमावेदितमवसेयम् । एत्र - खलु । अदर्शनतः सर्वज्ञाधिकरणका सर्वज्ञत्वजवस्तुकर्म का नवलोकनतः । साम्राज्यस्य - सर्वज्ञत्वात्मकस्य । एव खलु । नास्तिता - अभावः । न च - नैव । स्वीकर्तुं शक्येति । केनचिदेकेन सर्वज्ञेऽसर्वज्ञत्वजनित