________________
[१००] विषये । यत्-यस्माद्धेतोः। किश्चित् किमपि । वक्ति-निगदति । एवम्-अनेन प्रकारेण । सर्वम्-निखिलम् । अपि-खलु । जानान:जानन् , अवगच्छन्निति यावत् । कस्मात्-केन हेतुना। न-नहि । वक्ष्यति-निगदिष्यति । अपि तु सर्व वदिष्यत्येवेति भावः । यस्मिन् विषये यो बहु जानाति तस्मिन् विषये सोऽप्रतिहतं वक्ति यश्च पुनः सर्व जानाति स सर्वज्ञः कथं न ब्रूयादपि तु सर्वथैव ब्रूयादेवश्च सर्वज्ञे वक्तृत्वमबाधितमेवेति भावः ॥ ३६ ।।
पुनः श्लोकेनैकेन पूर्वोत्तरपक्षौ दर्शयतिसर्वज्ञे न कचिद्दष्ट-मसर्वज्ञत्वजं यदि । न तद्दष्टौ न दृष्टं यत्, तत्र तन्नेत्ययुक्तिमत् ॥ ॥ ३७ ।।
( अन्वयः) कचित्, सर्वज्ञ, असर्वज्ञत्वजम् , न, दृष्टम् , यदि, तद्दष्टौ, (यत्र) यत्, न, दृष्टम् , तत्र, तन्न, इति, अयुक्तिमत्, न ? ___ वृत्ति:-क्वचित्-कुत्रचित् । सर्वज्ञे-सर्वज्ञपदबोध्ये। असर्वज्ञत्वजमू-असर्वज्ञत्वजनित वस्तु । न-नहि। दृष्टम्-अवलोकितम् । ( इति ) यदि-चेत् । उच्यते इति शेषः । समाधत्ते-द्वितीयार्द्धन( यत्र) तद्दष्टौ-तदीयदर्शने, तदीयनेत्रे वा। यत्-यादृशम् । वस्त्विति यावत् । न-नहि । दृष्टम्-अवलोकितम् । तत्र-तस्मिन् स्थाने । तत्-तादृशम् । वस्त्विति शेषः । न-नहि। वर्तते इति शेषः। इति-अनेन प्रकारेण कल्पनम् । अयुक्तिमत्-अयुक्तम् । न-नहि ? नब: काकर्थकत्वात् , प्रश्नस्य च काकुव्यङ्गयत्वात् । अपि तु अयुक्तमेवेति । काकुतो नबः प्रश्नाभिव्यञ्जकत्वं यथा
(यत्र) तावत् । न-नहि पति शेषः ।