Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
......... व्याख्यान [१] .......... मूलं [१९] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
।
प्रत
सूत्रांक
गाथा II-II
इति प्राग्वत् स्थविराणां तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि, किंविशिष्टानि ? (कडाई) तैरन्यैर्वा ।
दृश्यवाच. श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिजाई) प्रीती दाने वा स्थैर्यवन्ति (वेसासियाई) निश्चित निषेधः अम्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि (सम्मयाई) येषां यतिप्रवेशः सम्मतो भवति तानि मू. १९ सम्मतानि (बहुमयाई) बहवोऽपि साधवः सम्मता येषां अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि (अणुमयाई भवंति) अनुमतानि-दानं अनुज्ञातानि अथवा अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणस्वात् न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमताणि वा भवन्ति (तस्थ से नो कप्पइ अदक्खु वइत्तए) तत्र-तेषु गृहेषु 'से' तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुंन कल्पते (अस्थि ते आउसो! इमं चा) पथा हे आयुष्मन् ! इदं इवं वा वस्तु अस्ति? इति, अदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाहु भंते!) तत् कुतो भगवन् ! इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः (सड्डी गिही गिण्हइ वा तेणियंपि कुजा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापिन प्रामोति तदास श्रद्धातिशयेन चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्ट्वाऽपि याचने न दोषः॥ (१९)॥
(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्तियस्स भिक्खुस्स) नित्यमेकाशनकारिणः18 भिक्षोः (कप्पइ एगं गोअरकालं गाहावइकुलं) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलंगृहं ( भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा) भक्तार्थे वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं ।
दीप अनुक्रम [२७९]
१४
JAMEnicatonirnxm
... अथ गोचर-चर्या-काल-वर्णनं क्रियते
~373~

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411