________________
३१२
भद्रकरोदयाख्यव्याख्याविभूषिते
समापत्तिरित्याख्येति हृदयम् । ईदृशाऽलौकिकदुर्लभाऽसाधारणफललाभाय समापत्तिः सर्वप्रयासेन साधनीयेति दूगनुधावि तात्पर्यम् । ध्यानात्समापत्तिस्ततस्तीर्थकृन्नामकर्मोपार्जनम् , अनन्तरं च जन्मान्तरे तदुदये तीर्थकृत्त्वमित्यभिव्यक्तः सारांशः ॥ ४ ॥
ननु विंशतिस्थानकफलं तीर्थकरनामकर्मेत्यागमप्रसिद्धम् । भवता च समापत्तिफलं तदुच्यते इति विपतिपत्तिरिति विप्रतिपन्न शिष्यं प्रबोधयमाह
इत्थं ध्यानफलाद् युक्तं विंशतिस्थानकाद्यपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवे ॥ ५॥
इत्थमित्यादि । इत्थम्-उक्तप्रकारेण, ध्यानफलात्-ध्यानस्योक्तलक्षणस्यैकाग्र्यसंवित्तेर्यत्फलं समापत्त्यापत्तिसंपत्तिरूपं तत्सद्भा. वाद्धेतोरित्यर्थः । यतो ध्यानस्योक्तं फलमत इति यावत् । विंशतिस्थानकाद्यपि-विंशतिभिः सङ्ख्याभिः सङ्ख्येयानि अर्हत्पूजा. दिपदरूपाणि, आदिना तादृशतपोऽन्तरपरिग्रहः तानि यत्र ताहशतपोऽपि, अपिना विंशतिस्थानकानां तीर्थकृन्नामकर्महेतुत्वेन प्रख्यातत्वं सूच्यते । युक्तम्-तीर्थकुन्नामकर्महेतुत्वेन घटमानकम् । नाऽन्यथा, विंशतिस्थानकै हि सेवित निं विशुध्यति, ततश्चोक्तं फलम् । एवं च यदि ध्यानस्योक्तं फलं न स्यात्तदा विंशतिस्थानकानि न तादृशफलवन्ति स्युः, ध्यानस्यैव वन्वे साक्षाद् हेतुत्वात् । तादृशध्यानफलाभावे हि तानि सेवितानि कष्टमात्रम् , तदाहकष्टमात्रमिति । तु विशेषे। कष्टमात्रम्-कष्टमेव कष्टमात्रम् ।