Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 73
________________ (६८) तत्त्वन्यायविभाकरे ANN वर्तते । अतो धूमो व्याप्यो निरूपकश्च वहिर्व्यापकः। तथा च व्याप्यसत्त्वेऽवश्यं व्यापकसत्त्वं, व्यापकसत्त्व एव च व्याप्येन भवितव्यमिति व्याप्यव्यापकभावनियमः सिद्ध्यति ॥ सोऽयं व्याप्त्यपरपर्यायो नियमो द्विविधः । सहभावनियमः क्रमभावनियमश्चेति ॥ तन्त्र सहभावनियम एकसामग्रीप्रसूतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोर्भवति ॥ क्रमभावनियमस्तु कृत्तिकोदयरोहिण्युदययोः पूर्वोत्तरभाविनोः, कार्यकारणयोश्च धूमवयोर्भवति ॥ प्रमाणाबाधितमनिर्णीतं सिषाधयिषितं साध्यम् । यथा वह्निमत्पर्वतः । अस्यैव च पक्ष इति नामान्तरम् । साध्यविशिष्टत्वेन धर्मिण एव सिषाधयिषितत्वात् । इदं चानुमानजन्यप्रतिपत्तिकाला. पेक्षया । व्याप्तिग्रहणवेलायां तु वह्नयादिधर्म एव साध्यः॥ धर्मिणश्च प्रसिद्धिः प्रमाणाद्विकल्पादुभयतो वा ज्ञेया। यथाऽस्ति सर्वज्ञ इत्यत्र धर्मिणः सर्वज्ञस्य विकल्पात् सिद्धिः । पर्वतो वहिमानित्यत्र पर्व

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128