Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 77
________________ ( ७२ ) तस्त्वन्यायविभाकरे पलम्भादिति साध्यविरुद्धखभावानुपलब्धिः । अस्त्यत्र छाया औष्ण्यानुपलब्धेरिति साध्यविरुद्धतापत्र्यापकानुपलब्धिः । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेरिति साध्यविरुद्धसम्यग्ज्ञानसहचरानुपलब्धिः ॥ I अनुमानं द्विविधं स्वार्थं परार्थञ्च । वचननिरपेक्षं विशिष्टसाधनात्साध्यविज्ञानं स्वार्थम् । यथाहि वह्निधूमयोर्गृहीत विनाभावः पुरुषः कदाचिद्भूधरादिसमीपमेत्य तत्राविच्छिन्नधूमलेखां पश्यन् यो यो धूमवान् स स वह्निमानिति स्मृतव्याप्तिकः पर्वतो वह्निमानिति प्रत्येति । इदमेव स्वार्थमुच्यते ॥ वचनसापेक्षं विशिष्टसाधनात् साध्यविज्ञानं परार्थम् । उपचाराद्वचनमपि परार्थम् । वचनञ्च प्रतिज्ञाहेत्वात्मकम् । मन्दमतिमाश्रित्य तूदाहरणोपनयनिगमनान्यपि ॥ अनुमेयधर्मविशिष्टधर्मिबोधकशब्दप्रयोगः प्रतिज्ञा । यथा पर्वतो वह्निमानिति वचनम् ॥ उपपत्यनुपपत्तिभ्यां हेतुप्रयोगो हेतुवचनम् । यथा तथैव धूमोपपत्तेः धूमस्यान्यथानुपपत्तेरिति च ॥ एकत्रो भयोः प्रयोगो नावश्यकः । अन्यतरेणैव साध्यसिद्धेः ॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128