Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 104
________________ वादनिरूपणम् ( ९९ ) स्फूर्तिमान क्षमी मध्यस्थः सभ्यः । वादोऽयं त्रिभिः सभ्यैरन्यूनो भवेत् ॥ सभ्यरेतैः यथायोगं वादिप्रतिवादिनोः प्रतिनियतवादस्थाननियमनं, कथाविशेषनियमनं, पूर्वोत्तरवादनिर्देशः, तद्वचनगुणदोषावधारणं, तत्त्वप्रकाशनेन यथासमयं वादविरामः, जयपराजयप्रकाशनश्च कार्यम् ॥ प्रज्ञाऽऽज्ञासम्पत्तिसमताक्षमालङ्कृतः सभापतिः। अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यार्थस्यावधारणं, तयोः कलहनिराकरणं तयोइशपथानुगुणं पराजितस्य शिष्यत्वादिनियमनं पारितोषिकादिवितरणश्च कर्त्तव्यम् ॥ इति वादनिरूपणम् । पूर्वागमान् पुरस्कृत्य भेदलक्षणतो दिशा । बालसंवित्प्रकाशाय सम्यक्संवित्प्रकाशिता ॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128