Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 71
________________ (६६) तत्त्वन्यायविभाकरे महिष इत्यादि । प्रतियोगित्वविषयकञ्च, इदं तस्मादरं समीपमल्पं महद्वेत्यायुदाहरणानि बोध्यानि ॥ इति प्रत्यभिज्ञानिरूपणम् उपलम्भानुपलम्भादिजन्यं व्याप्त्यादिविषयकं ज्ञानं तर्कः । यथा वह्नौ सत्येव धूमो भवति वहावसति धूमो न भवत्येवेति ज्ञानं व्याप्तिविषयकम् । यथा वा घटजातीयश्शब्दो घटजातीयस्य वाचको घटजातीयोऽर्थो घटजातीयशब्दवाच्य इति ज्ञानं वाच्यवाचकभावसम्बन्धविषयकम् । व्याप्तिविषयकज्ञानञ्च व्याप्तिज्ञानकाले सकृदुपलम्भानुपलम्भाभ्यां साक्षादेव जायते । कचित्तु पूर्व असकृदुपलम्भानुपलम्भाभ्यामेव कालान्तरे साधनग्रहणप्रारदृष्टसाध्यसाधनस्मरणप्रत्यभिज्ञापरम्परया जायते । उपलम्भश्च साध्यसत्त्व एव हेतूपलम्भ इति । अनुपलम्भश्च साध्याभावे हेतोरनुपलम्भ इति। साध्यसाधनग्रहणात्मकाविमौ प्रमाणमात्रेणाभिप्रेतौ ॥ वाच्यवाचकभावसम्बन्धज्ञानन्तु कचिदावापोद्वापाभ्यां समुदेति । यथा प्रयोजकवृद्धप्रयुक्तगामानयेतिवाक्यश्रवणसमनन्तरगवानयनप्रवृत्तिमत्प्रयोज्यवृद्धचेष्टाप्रेक्षणजन्यैतद्वाक्यजन्यैतदर्थविषयकज्ञानवानयमित्यनुमानज्ञानवतोऽपि बालस्य तत्त

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128