Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 93
________________ ( ८८ ) तत्त्वन्यायविभाकरे....... स्त्येव । अन्यथा द्वितीयादिसमये तदनभ्युपगमे अज्ञ त्वप्रसङ्गः ॥ केवलज्ञानस्य परम्परफलं माध्यस्थ्यं हानोपादानेच्छाया अभावात् । तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवृत्तिः । सुखन्तु न केवलज्ञानस्य फलं, अशेचकर्मक्षयस्य फलत्वात् ॥ तद्भिन्नप्रमाणानान्तु हानोपादानोपेक्षा बुद्धयः फलम् ॥ फलञ्च प्रमाणात् भिन्नाभिन्नं, प्रमाणतया परिणतस्यैवात्मनः फलत्वेन परिणमनात्तयोः कथञ्चिदभेदः । कार्यकारणभावेन प्रतीयमानत्वाच्च कथञ्चिद्भेदः ॥ इति समाप्तं प्रमाणनिरूपणम् ॥ प्रमाणश्च निश्चयात्मकमेव, आरोपविरोधित्वात् । अतत्प्रकार के वस्तुनि तत्प्रकारकत्वज्ञानमारोपः । स त्रिधा विपर्ययसंशयानध्यवसाय भेदात् ॥ अन्यथास्थितवस्त्वेककोटिमात्रप्रकारकनिश्चयो विपर्ययः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ अत्र हि स्मरण पढौकितं रजतं तद्देशतत्कालयोरविद्यमानमपि दोषमहिम्ना सन्निहितत्वेन भा

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128