Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 101
________________ तत्त्वन्यायविभाकरे पर्यायशब्दानां निरुक्तिभेदेन भिन्नार्थत्वमेव न त्वर्थगतोऽभेदोपीति योऽभिप्रायः स समभिरूढनयाभासः । यथा शक्रपुरन्दरेन्द्रशब्दानां भिन्नाभिधेयत्वमेव भिन्नशब्दत्वादित्यभिप्रायः ॥ ( ९६ ) प्रवृत्तिनिमित्तक्रियाविरहितमर्थं शब्दवाच्यतया सर्वथानभ्यपगच्छन्नभिप्रायविशेष एवम्भूतनयाभा सः । यथा घटनादिक्रियाविरहितघटादेर्घटादिशब्दवाच्यत्वव्युदासाभिप्राय इति ॥ 1 नयस्येदृशस्य वस्त्वैकदेशस्याज्ञाननिवृत्तिरनन्तरफलम् । परम्परफलन्तु वस्त्वैकदेशविषयकहानोपादानोपेक्षा बुद्धयः । उभयविधमपि फलं नयात्कथञ्चित भिन्नाभिन्नं विज्ञेयम् ॥ T इति नयनिरूपणम् ॥ स्वपरपक्षसाधनदूषणविषयं तत्त्वनिणयविजयान्यतरप्रयोजनं वचनं वादः । साधनात्मकं दूषणात्मकञ्च वचनं स्वस्वाभिप्रेतप्रमाणरूपमेव स्यात् । तदन्यस्य प्रमाणाभासत्वान्निर्णायकत्वानुपपत्तेः । जल्पवितण्डयोस्तु न कथान्तरत्वं वादेनैव चरितार्थत्वात् ॥ कथारम्भकस्तु जिगीषुस्तत्त्व निर्णिनीषुश्च । अङ्गीकृतधर्मसाधनाय साधनदूषणवचनैर्विजयमिच्छुजिगीषुः ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128