Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
नयनिरूपणम्
( ९५ )
क्षणिकसुखविषयासक्तजीवयोश्च सर्वथा भेदाभिप्रायः । वैशेषिकनैयायिकयोदर्शनमेतदाभास एव ॥
परसामान्यमपरसामान्यं वाभ्युपगम्य तद्विशेषनिराकरणाभिप्रायः सङ्ग्रहनयाभासः । यथा जगदिदं सदेव तद्व्याप्यधर्मानुपलम्भादिति । अद्वैतसांख्यदर्शने एतदाभासरूपे । एवं द्रव्यमेव तत्त्वं तद्विशेषाणामदर्शनादित्यादयोऽभिप्रायविशेषाः ।। ___ काल्पनिकद्रव्यपर्यायाभिमन्ता व्यवहाराभासः। यथा चार्वाकदर्शनम् । तत्र हि काल्पनिकभूतचतुष्टयमानविभागो दृश्यते । प्रमाणसंपन्नजीवद्रव्यपर्यायादिविभागस्तिरस्क्रियते ॥ ___ कालत्रयस्थायिपदार्थव्युदसनपूर्वकं वर्तमानक्षणमात्रवृत्तिपर्यायावलम्बनाभिप्राय ऋजुसूत्रनयाभासः । यथा बौद्धदर्शनम् । बुद्धो हि क्षणमात्रस्थायिनमेव पदार्थ प्रमाणतया स्वीकरोति तदनुगामिप्रत्यभिज्ञाप्रमाणसिद्धमेकं स्थिरभूतं द्रव्यं नाभ्युपैति॥ ___ कालादिभेदेन शब्दस्य भिन्नार्थवाचित्वमेवेति अभेदव्युदसनाभिप्राय:शब्दनयाभासः। यथा बभूव भवति भविष्यति सुमेरुरित्यादौ भूतवर्तमानभविष्यत्कालीनान् भिन्नभिन्नानेव प्रमाणविरुद्धान् रत्नसानूनभिदधति तत्तच्छब्दा इत्याद्यभिप्रायः ॥

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128