Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
पुलाकादिनिरूपणम्
( ११९ ) निर्ग्रन्थः । अन्यसमयेषु विद्यमानोऽप्रथमसमयनिर्ग्रन्थः ॥
अन्तिमसमये विद्यमानश्चरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्त्या अन्त्यौ च पश्चानुपूर्त्या व्यपदिष्टौ । प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः ॥
निरस्तघातिकर्मचतुष्टयः स्नातकः । स सयोग्ययोगिभेदेन द्विविधः । मनोवाकायव्यापारवास्नातकः सयोगी । सर्वथा समुच्छिन्नयोगव्यापारवान्स्नातकोऽयोगी॥ ___ संयमश्रुतप्रतिसेवनातीर्थ लिङ्गलेश्योपपातस्थानविचार्या एते ॥.
पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकसंयमे छेदोपस्थाप्ये च वर्तन्ते । कषायकुशीलाः परिहारविशुद्धौ सूक्ष्मसंपराये च । निर्ग्रन्थाः स्नातकाश्च यथाख्यात एव ॥
पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणानूनकाक्षराणि दशपूर्वाणि श्रुतानि धारयन्ति । कषायकुशीला निर्ग्रन्थाश्च चतुर्दशपूर्वधराः । जघन्येन

Page Navigation
1 ... 122 123 124 125 126 127 128