Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 96
________________ नयनिरूपणम् (९१) तत्र गौणमुख्यभावेन धर्मद्वयधर्मिद्वयधर्मधर्म्यु भयान्यतमविषयकं विवक्षणं नैगमनयः । यथा पर्वते पर्वतीयवह्निरिति । अत्र वयात्मको धर्मः प्रधानं विशेष्यत्वात् पर्वतीयत्वरूपव्यञ्जनपर्यायो गौणो वह्निविशेषणत्वात् । एवमनित्यज्ञानमात्मनः, घटे नीलं रूपमित्यादयो धर्मद्वयविषयकदृष्टान्ता भाव्याः ॥ काठिन्यवद्रव्यं पृथिवीत्यादौ पृथिवीरूपधर्मिणो विशेष्यत्वान्मुख्यत्वं काठिन्यवद्रव्यस्य विशेषणत्वाद्गौणत्वम् । यद्वा काठिन्यवद्रव्यस्य विशेष्यत्वान्मुख्यता पृथिव्या विशेषणत्वाद्गौणता । एवं रूपवद्रव्यं मूर्त, पर्यायवद्रव्यं वस्त्वित्यादीनि धर्मिद्वयविषयकविवक्षणे उदाहरणानि ॥ ___ रूपवान् घट इत्यत्र तु घटस्य धर्मिणो विशेष्यत्वात्प्रधानता, रूपस्य धर्मस्य तद्विशेषणत्वाद्गीणता । इत्थं ज्ञानवानात्मा नित्यसुखी मुक्तः क्षणिकसुखी विषयासक्तजीव इत्यादीनि धर्मधर्म्युभयविषयकविवक्षणे निदर्शनानि ।। स्वव्याप्ययावद्विशेषेष्वौदासीन्यपूर्वकं सामान्यविषयकाभिप्रायविशेषः सङ्ग्रहः । स द्विविधः परापरभेदात् ॥

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128