Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 75
________________ ( ७० ) तत्त्वन्यायविभाकरे दिति कार्यात्मकः। भविष्यति वृष्टिविलक्षणमेघोपलम्भादिति कारणात्मकः। उदेष्यति शकटं कृत्तिको दयादिति पूर्वचरः। उदिता चित्रा स्वात्युदयादित्युत्तरचरः। रूपवान् रसादिति सहचर इतीमानिन्यविरुद्धविधिहेतोरुदाहरणानि ॥ विरुद्धविधिहेतुः प्रतिषेधसाधको प्रतिषेध्यस्वभावविरुद्धः प्रतिषेध्यस्य साक्षाद्व्याप्यादिभेदेन च सप्तप्रकारः ॥ नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भादिति प्रतिषेध्यस्य यः स्वभावः सर्वथैकान्तत्वं तेन साक्षाद्विरुद्धो विधिहेतुः। नास्य नवतत्त्वनिश्चयस्तत्संशयादिति प्रतिषेध्यस्य नवतत्त्वनिश्चयस्य विरुद्धेनानिश्चयेन व्याप्यः। नास्त्यत्र शीतं धूमादिति प्रतिषेध्यशीतविरुद्धवह्निकार्यरूपः। न देवदत्ते सुखमस्ति हृदयशल्यादिति प्रतिषेध्यसुखविरुद्धदुःखकारणरूपः । मुहूर्तान्ते नोदेष्यति शकटं रेवत्युदयादिति प्रतिषेध्यशकटोदयविरुद्धाश्चिन्युदयपूर्वचरः । मुहात्माङ्नोदगाद्भरणिः पुष्योदयादिति प्रतिषेध्यभरण्युदय विरुद्धपुनर्वसूदयोत्तरचरः । नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति प्रतिषेध्यमिथ्याज्ञानविरुद्धसम्यज्ञानसहचर इति ॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128