Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
www
(८०)
तत्त्वन्यायविभाकरे लौकिकवाक्यानामर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि न वास्तविकं प्रामाण्यं, पूर्णार्थाप्रकाशकत्वात् , सप्तभङ्गीसमनुगमाभावाच ॥ __ तत्र प्रश्नानुगुणमेकधर्मिविशेष्यकाविरुद्धविधिनिषेधात्मकधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं सप्तभङ्गीत्वम् ।।
वाक्यानि च स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादस्ति नास्ति च घटः, स्यादवक्तव्य एव, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति नास्ति चावक्तव्यश्चेति ॥
सप्तविधप्रष्टप्रश्नवशात्सप्तवाक्यप्रवृत्तिः प्रश्नानां सप्तविधत्वं तजिज्ञासायास्सप्तधात्वात् , सप्तधात्वं जिज्ञासायाः सप्तधा संशयोदयात्, संशयानां सप्तधात्वं तु तद्विषयधर्माणां सप्तधात्वाद्विज्ञेयम् ॥
ते च धर्माः कथञ्चित्सत्त्वं, कथञ्चिदसत्त्वं क्रमार्पितोभयं, कथञ्चिदवक्तव्यत्वं, कथञ्चित्सत्त्वविशिष्टावक्तव्यत्वं, कथञ्चिदसत्त्वविशिष्टावक्तव्यत्वं, क्रमार्पितोभयविशिष्टावक्तव्यत्वश्च ॥ _ तत्र प्रथमे भङ्गे सत्त्वस्य प्रधानतया भानं, द्वितीयेऽसत्त्वस्य प्राधान्येन, तृतीय क्रमाप्तिसत्त्वा

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128