Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 78
________________ असद्धेतुनिरूपणम् (७३) - दृष्टान्तबोधकशब्दप्रयोग उदाहरणम् । साधर्म्यतो वैधर्म्यतो वा व्याप्तिस्मरणस्थानं दृष्टान्तः । यथा महानसादिर्हदादिश्च ॥ दृष्टान्तप्रदर्शितसाधनस्य साध्यधर्मिण्युपसंहारवचनमुपनयः । यथा तथा चायमिति ॥ साध्यधर्मस्य धर्मिण्युपसंहारवचनं निगमनम् । यथा तस्मात्तथेति ॥ इति सद्धेतुनिरूपणम् असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः । हेतुस्वरूपाप्रतीतिप्रयुक्ताप्रतीतव्याप्तिको हेतुरसिद्धः। स द्विविधः वादिप्रतिवाद्युभयासिद्धोऽन्यतरासिद्धश्चेति । तत्राद्यो यथा शब्दोऽनित्यश्चाक्षुषत्वादिति । अत्र शब्दस्य चाक्षुषत्वं नोभयस्य सिद्धम् । द्वितीये प्रतिवाद्यसिद्धो यथा वृक्षा अचेतना मरणरहितत्वादिति । हेतुरयं वृक्षे जैनस्य प्रतिवादिनोऽसिद्धः । प्राणवियोगरूपमरणस्य स्वीकारात् ॥ . वाद्यसिद्धो यथा शब्दः परिणामी उत्पत्तिमत्त्वादिति । अत्र शब्दस्योत्पत्तिमत्त्वं वादिनः सांख्यस्यासिद्धम् ॥ साध्यधर्मविपरीतव्याप्तिको हेतुर्विरुद्धः । यथा

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128