Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 67
________________ (६२) तत्त्वन्यायविभाकरे मतिश्रुतविषयीभूतार्थज्ञानसाधनमनिन्द्रियं मनः। अप्राप्यप्रकाशकारि। इदमपि द्रव्यभावभेदेन द्विविधम् । मनस्त्वेन परिणतमशेषात्मप्रदेशव्यापि पौगलिक द्रव्यमनः। तदावरणक्षयोपशमजन्योऽर्थग्रहणोन्मुख आत्मव्यापारविशेषो भावमनः ।। सांव्यवहारिकश्चावग्रहेहापायधारणाभेदेन चतु. विधम् । विषयेन्द्रियमनोभिसम्बन्धजन्यदर्शनजनि तं सत्तावान्तरसामान्यवद्वस्तुविषयकं ज्ञानमवग्रहः । यथायं मनुष्य इत्यादि । सत्तामात्रावगाहि ज्ञानं दर्शनमालोचनम् । यथेदं किञ्चिदिति । योग्यतैवान्न विषयेण चक्षर्मनसोः सम्बन्धः। सा चानतिदूरासन्न व्यवहितदेशाद्यवस्थानरूपा। इतरेन्द्रियेषु संश्लेषः। अवगृहीतधर्मिण्यवगृहीतसामान्यावान्तरविशेषस्य पर्यालोचनमीहा । इयश्चावगृहीतसामान्यधर्मावान्तरधर्मविषयसंशयाजायते । यथाऽयं मनुष्यः पौरस्त्यो वा पाश्चात्यो वेति संशयात् लक्षणविशेषेण पौरस्त्य एवायं भवितव्य इति । ईहाविषयविशेषधर्मवत्तानियोऽपायः। यथाऽयं पाश्चात्य एवेति॥ अयमेव प्रत्यक्षप्रमाणमुच्यते न त्ववग्रहेही तयोरनिर्णयरूपत्वात् ।। स्मरणोत्पत्त्यनुकूलोऽवायो धारणा । इयश्च सं.

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128