Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 222
________________ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता चउगइआगय नरगइठिय सिव ३ वेयतिग ४ दुविहतित्थेऽवि ५ । १ गिहि- अन्न- सलिंगेसु अ ६, चरणे अहखाइ वट्टंता ॥६॥ ति चउ पण पुव्वि तिचरण, जिणा ७ सयं - बुद्धि- 'बुद्ध - 'पत्तेया । दु-ति- चउनाणा ९ लहुतणु, दुहत्थ गुरु पणधणुसयाओ १० ॥७॥ 1 गतिद्वारे चतुर्गत्यागताः सामान्यतः सिध्यन्तीति शेषः । विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो न शेषाभ्यः । तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः । मनुष्यगतेः 'स्त्रीभ्यो नरेभ्यो नपुंसकेभ्यो वा । देवगतेश्चतुर्भ्योऽपि देवनिकायेभ्यः । तीर्थकृतः पुनर्देवगतेर्नरकगतेर्वा अनन्तरागताः सिध्यन्ति । तत्राप्याद्यपृथिवीत्रयादेव न शेषाभ्यः । वैमानिकेभ्यो न शेषदेवेभ्यः । वर्तमाननयमाश्रित्य मनुष्यगतिस्था एव शिवं प्राप्नुवन्तीति शेषः ३। वेदद्वारे प्रत्युत्पन्ननयमाश्रित्यापगतवेद एव सिध्यति । तद्भवानुभूतपूर्ववेदापेक्षया बाह्याकारमात्रापेक्षया च वेदत्रिकेषु । तीर्थकृतः पुनः स्त्रीवेदे पुरुषवेदे वा ४ । तीर्थद्वारे तीर्थकरतीर्थकरीतीर्थरूपे द्विविधेऽपि तीर्थे ५। लिङ्गद्वारे इदं लिङ्गत्रयं द्रव्यलिङ्गापेक्षया ज्ञेयम् । संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्गे एव ६। चारित्रद्वारे चारित्रे यथाख्याते क्षायिके एव वर्त्तमानाः सिध्यन्ति ॥६॥ तद्भवपूर्वानुभूतचरणापेक्षया त्रिकं चतुष्कं पञ्चकं च प्राप्य सिध्यन्ति । अयमर्थःकेचित्सामायिक सूक्ष्मसम्पराययथाख्यातचारित्राणि, केचित्सामायिकच्छेदोपस्थापनीयसूक्ष्मसम्पराययथाख्यातानि केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातानि केचित्सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातानि चारित्राणि प्राप्य सिध्यन्ति । जिनास्त्रिचरणा एव प्राप्तसामायिकसूक्ष्मसम्पराययथाख्यातचारित्राः ७ बुद्धद्वारे 'सयंबुद्धिबुद्धपत्तेआ' इति सूचनात्सूत्रस्य स्वयं बाह्यप्रत्ययनिरपेक्षं बुद्धाः स्वयंबुद्धाः । बुद्धी मल्लिस्वामिनी सामान्यस्त्री वा तया बोधिता बुद्धीबोधिताः । बुद्धा आचार्यादयः, तैर्बोधिता बुद्धबोधिताः । प्रत्येकं किमपि बाह्यप्रत्ययं दृष्ट्वा २०० १. इतः प्राग् ‘गर्भजेभ्यः' इत्यधिकं क्वचित् । २. इतोऽग्रे - 'न नपुंसकवेदे' इत्यपि । ३. 'बाह्यं निमित्ताद्यनपेक्ष्य' इत्यपि क्वचित् ।

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244