Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 232
________________ २१० श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता इअ गुरुयअंतरमुत्तं, लहु समओ ६ भावु सव्वहिं खइओ ७ । इत्येवं 'जंबुद्दीवे धायई' इत्यादिपूर्वोक्तप्रमाणेन गुरुमुत्कृष्टमन्तरं सिद्धिगमनविरहकाले उक्तम् । लघु जघन्यमन्तरं सर्वत्र पञ्चदशस्वपि द्वारेषु एकसमय: ६ । इत्युक्तं मौलं षष्ठमन्तरद्वारम् । सम्प्रति भावद्वारमाह-सर्वत्र सर्वद्वारेषु भावः क्षायिक एव ७ । सम्प्रत्यल्पबहुत्वद्वारमाहचउ दस वीसा वीसप्पहुत्त अट्ठस्सयं कमसो ॥२९॥ सम थोव समा संखागुणिआ इय भणिअणंतरा सिद्धा । अह उ परंपरसिद्धा, अप्पबहुं मुत्तु भणिअत्था ॥३०॥ 'चउ दस' इत्यादि । तत्र ये तीर्थङ्करा ये च जले ऊर्ध्वलोकादौ चत्वारश्चत्वारः सिध्यन्ति, ये च हरिवर्षादिषु संहरणतो दश दश सिध्यन्ति, ते परस्परं समास्तुल्याः । तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात् । तेभ्यो विंशतिसिद्धाः स्तोकाः तेषां स्त्रीषु दुःषमायामेकस्मिन् विजये वा प्राप्यमाणत्वात् । तैस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्तेऽधोलौकिकग्रामेषु बुद्धीबोधितस्त्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धस्तुल्याः । क्षेत्रकालयोः स्वल्पत्वात्कादाचित्कत्वेन च सम्भवादिति । तेभ्योऽष्टशतसिद्धाः सङ्ख्यातगुणिताः सङ्ख्येयगुणाः इत्यर्थः । गतमल्पबहुत्वद्वारम् । इत्येवं प्रागुक्तप्रकारेणानन्तराः सिद्धाः भणिताः । अथानन्तरं पुनः परम्परासिद्धा भणितव्याः । ते पुनरल्पबहुत्वं मुक्त्वा भणितार्थाः । अयं विशेषः-द्रव्यप्रमाणे सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः । क्षेत्रस्पर्शने प्रागिव । कालः पुनरनादिरूपोऽनन्तो वक्तव्यः, अत एवासम्भवादन्तरं न वाच्यम् ॥२९॥ ३०॥ सम्प्रति अवशिष्टमल्पबहुत्वं उच्यते-. सामुद्द दीव जल थल, थोवा संखगुणा । उड्ड अह तिरिअलोए, थोवा दुन्नि पुण संखगुणा ॥३१॥ लवणे कालोअम्मि य, जंबुद्दीवे य धायईसंडे। पुक्खरवरदीवड्डे, कमसो थोवा उ संखगुणा ॥३२॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244