Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२०९ विशुद्धियुक्ते पूर्वोक्तचारित्रत्रये । किमुक्तं भवति–सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणां, सामायिकपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणां च 'जुअली' इति युगलिकालोऽष्टादशातरकोटाकोट्यः किञ्चिदूनाः । यत एते चरणे भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थ एव प्राप्येते, तत्र चेदमन्तरमुत्कर्षतो लभ्यत इति ७ । बुद्धद्वारे बुद्धबोधितानां पुरुषाणां समधिकं वर्षम् । सूत्रे च 'तिचरण सलिंगे' इति द्वारव्यत्ययो गाथाबन्धानुलोम्यादिति ज्ञेयम् ॥२५॥ 'सेसा' इति षष्ठ्यर्थे प्रथमा । ततः शेषाणां बुद्धबोधितस्त्रीणां प्रत्येकबुद्धानां च सङ्ख्यातसमासहस्राण्यन्तरम्, स्वयंबुद्धे पूर्वसहस्रपृथक्त्वम् ८ । ज्ञानद्वारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्याऽसङ्ख्यातभागः, अवधियुक्ते मतिश्रुतज्ञाने समधिकं वर्षम् ॥२६॥ शेषभङ्गद्विके मतिश्रुतमनःपर्यायलक्षणे मतिश्रुतावधिमनःपर्यायलक्षणे च सङ्ख्यातसमासहस्राणि ९ । अवगाहनाद्वारे गुर्ववगाहनायां लघ्ववगाहनायां च यवमध्ये च प्रत्येकं "चउदसरज्जू लोगो, बुद्धिकओ सत्तरज्जुमाणघणो । तद्दीहेगपएसा सेढी पयरो य तव्वग्गो ॥१॥" इत्येवंलक्षणश्रेण्यसङ्ख्येयभागः श्रेण्यसङ्ख्येयभागगतप्रदेशापहारकाल इत्यर्थः । मध्यमावगाहने वर्षमधिकम् १० ॥२७॥
अचुअ असंखं सुअही, अणंतहिअवास सेस संखसमा ११ । संतर १२ अणंतरं १३ इग, अणेग १४ समसहस संखिज्जा ॥२८॥
उत्कृष्टद्वारे सूचनात्सूत्रस्य अच्युतसम्यक्त्वानां असङ्ख्यांशो भाग उदधेः सागरोपमस्य । 'अणंत' इति अनन्तकालच्युतसम्यक्त्वानां साधिकं वर्षम् । 'सेस' इति असङ्ख्यातकालपतितसङ्ख्यातकालपतितानाम् ‘संखसमा' इति "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् सङ्ख्यातसमासहस्राणि ११ । अन्तरद्वारे सान्तरं सिध्यताम् १२ । अनुसमयद्वारे निरन्तरं सिध्यताम् १३ । गणनाद्वारे एककानामनेककानां च सिध्यतां उत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि १४ ॥२८॥
उपसंहरन्नाह
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244