Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२१९ सङ्ख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः । ततोऽपि षड्विशतिसिद्धा असङ्ख्येयगुणहीनाः, ततः सप्तविंशतिसिद्धा असङ्ख्येयगुणहीनाः, एवमेकैकवृद्ध्या असङ्ख्येयगुणहानिस्तावद्वक्तव्या यावत्पञ्चाशत् । तेभ्योऽपि एकपञ्चाशत्सिद्धा अनन्तगुणहीनाः, ततोऽपि द्विपञ्चाशत्सिद्धाः, एवमेकैकवृद्ध्या अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः । यत्र यत्र पुनर्विंशतिसिद्धास्तत्र तत्रेयं व्याप्ति:एककसिद्धाः सर्वबहवः, तेभ्यो द्विकद्विकसिद्धाः सङ्ख्यातगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्च । ततः षडादिसिद्धा असङ्ख्यातगुणहीनाः, यावद्दश । तत एकादशादयः सर्वेऽप्यनन्तगुणहीनास्तावद्वाच्या यावद्विंशतिसिद्धा अनन्तगुणहीनाः । एवमधोलोकादिष्वपि । विंशतिपृथक्त्वसिद्धौ प्रथमचतुर्थभागे सङ्ख्येयगुणहानिः, द्वितीयचतुर्थभागेऽसङ्ख्येयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः । यत्र पुनर्दश दश सिध्यन्ति, तत्रैवं व्याप्तिः-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, ततस्त्रिकत्रिक सिद्धाः सङ्ख्यातगुणहीनाः, तेभ्यश्चतुष्क चतुष्क सिद्धाः असङ्ख्यातगुणहीनाः, ततः पञ्च पञ्च सिद्धा असङ्ख्यातगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीना वाच्याः । 'संख असंख अणंत य गुणहाणि' इति भावितमेव । तथा 'चउटुआई' इति यत्र यत्र यवमध्यादावष्टौ सिध्यन्ति तत्र तत्र चतुष्कं यावदाद्या सङ्ख्यातगुणहानिः, ततः परं पञ्चकादावन्त्यानन्तगुणहानिर्वाच्या। अत्र मध्यासङ्ख्येयगुणहानिर्न विद्यते । एतदुक्तं भवतिएककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्ख्यातगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः सङ्ख्यातगुणहीनाः, ततश्चतुष्कचतुष्कसिद्धाः सङ्ख्यातगुणहीनाः, ततः पञ्चादयोऽष्टपर्यन्ताः सर्वेऽप्यनन्तगुणहीनाः ॥४९॥ 'इग' अत्रैवमक्षरघटना-यत्र लवणादौ द्वयं द्वयं सिध्यति, तत्र सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धा, अनन्तगुणहीनाः । यत्र पुनरूख़लोकादौ- चत्वारः सिध्यन्ति, तत्रैवं व्याप्तिः तत्र सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः असङ्ख्येयगुणहीनाः, तेभ्यस्त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धा अनन्तगुणहीनाः । तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः । शेषेषु
Loading... Page Navigation 1 ... 239 240 241 242 243 244