Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 224
________________ २०२ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता जहनिअर इक्क अडसय १४, अणेग एगा य थोव संखगुणा १५ । ___ उत्कर्षद्वारे कालशब्दस्य प्रत्येकं योगात् अनन्तं कालं असङ्ख्यं सङ्ख्यं च कालं च्युतसम्यक्त्वाः सिध्यन्ति अच्युतसम्यक्त्वाश्च । अयमर्थः-च्युतसम्यक्त्वाः केचिदनन्तं कालं अर्धपुद्गलपरावर्त्तलक्षणं संसारे भ्रान्त्वोत्कर्षतो लब्धसम्यक्त्वादिरत्नत्रयाः सिध्यन्ति । अपरेऽनुत्कर्षतोऽसङ्ख्यातम् । अन्ये तु सङ्ख्येयम् । केचनाच्युतसम्यक्त्वा अपि सिध्यन्तीति ११ । अन्तरद्वारे जघन्यत एकसमयः, उत्कर्षतः षण्मासाः १२ । अनुसमयद्वारे निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्ति, उत्कर्षतोऽष्टौ समयाः । अव्यवधानं निरन्तरतेत्यर्थः १३ ॥८॥ गणनाद्वारे जघन्यत एकः, इतरत उत्कर्षतोऽष्टाधिकं शतं सिध्यति । श्रीनाभेयस्य निर्वाणसमयेऽष्टोत्तरशतमेकसमयेन सिद्धम् । आह च संघदासगणिर्वसुदेवहिण्डौ-"उसभो अभीइणा नक्खत्तेणं एगूणपुत्तसएहिं अट्टहिं सह एगसमएणं निव्वुए । सेसाणवि अणगाराणं दससहस्साणि अट्ठसयऊणगाणि तंमि चेव नक्खत्ते बहुसु समयंतरेसुत्ति" १४ । अल्पबहुत्वद्वारे युगपवित्रादिकाः सिद्धाः स्तोकाः, तेभ्य एककाः सिद्धाः सङ्ख्येयगुणा विवक्षितसमये एकैकसिद्धानां बाहुल्यादिति भावः १५ । गतं सत्पदप्ररूपणाद्वारम् १ । सम्प्रति द्रव्यमानं क्षेत्रादिषु पञ्चदशसु द्वारेष्वभिधीयतेचउ उड्ड नंदणजले, वीस पहुत्तं अहोलोए ॥९॥ इगविजय वीस अडसय, पत्तेयं कम्मभूमि तिरिलोए। दु दु जलहि पंडगवणे, अकम्ममहि दस य संहरणा ॥१०॥ तत्र क्षेत्रद्वारे चतुश्शब्दस्य प्रत्येकं योगात् । ऊर्ध्वलोके सामान्यतो मेर्वादौ नन्दनवने जले सामान्यतो नद्यादिगते च जले "चउक्कं दुवे समुइंमि" इति वचनात् । श्रीजिनभद्रगणिक्षमाश्रमणरचितसङ्ग्रहण्याम्-"तओ जले चेव" इत्युक्तम् । तदत्र तत्त्वं केवलिनो विदन्ति । यदुक्तम्-"वीसपहुत्तं अहोलोए" इति सिद्धप्राभृते । सङ्ग्रहण्यां पुन:-"बावीसमहोलोए" इत्युक्तम् । “दो १. 'सम्प्रति द्रव्यमानमाह' इत्यपि ।

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244