Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 229
________________ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता २०७ ६ । चारित्रद्वारे अनुभूतपरिहारविशुद्धिकचरित्राश्चतुर: समयान् । शेषा अष्टावष्टौ समयान् ७ । बुद्धद्वारे स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो नरादयो वा सामान्यतः प्रत्येकं चतुरः समयान् ८ । ज्ञानद्वारे मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरः समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाष्टावष्टौ समयान् ९ । अवगाहनाद्वारे उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुर: समयान्, मध्यमावगाहनायां पुनरष्टौ समयान् १० । उत्कृष्टद्वारे अपतितसम्यक्त्वा द्वौ समयौ सङ्ख्येयकालप्रतिपतिता असङ्ख्येयकालप्रतिपतिताश्च चतुरश्चतुर: समयान्, अनन्तकालप्रतिपतिता अष्टौ अष्टौ समयान् ११ । इत्यन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति ॥१९॥ गतं मौलं पञ्चमं काल इति द्वारम् । साम्प्रतं षष्ठमन्तरद्वारमाहजंबुद्दीवे धायइ, ओह विभागे य तिसु विदेहेसु । वासपहुत्तं अंतर, पुक्खरदुविदेह वासहियं १ ॥२०॥ क्षेत्रविभागे 'ओह' इति सामान्येन जम्बूद्वीपे धातकीखण्डे च विभागेन विशेषचिन्तायां जम्बूद्वीपसत्के एकस्मिन् विदेहे द्वयोश्च धातकीखण्डसत्कयोरेवं त्रिषु विदेहेषु उत्कृष्टं वर्षपृथक्त्वमन्तरं सिद्धिगमनलक्षणम् । तथा पुष्करवरद्वीपार्द्ध ओघेन विभागेन च तद्विदेहयोश्च वर्षमधिकमन्तरमिति १ ॥२०॥ भरहेरवए जम्मा, कालो जुगलीण संखसमसहसा । संहरण २ नरयतिरिए, समसहसा समसयपहुत्तं ॥२१॥ तिरिईसुरेनरनारीसूरीहिँ, उवएससिद्धिलद्धीए । वासाहिअंतर अह सय-बोहीओ संखसमसहसा ॥२२॥ सयमुवएसा भूजलवणसुहमीसाणपढमदुगनरया ३ । कालद्वारे भरतैरावतेषु जन्मतः कालो युगलिनां युगलिकालः किञ्चिदूनाष्टादशसागरकोटाकोटीलक्षणं । अवसर्पिण्या आद्यद्वितीयतृतीयारकाः उत्सर्पिण्याश्चतुर्थपञ्चमषष्ठारका इति भावः । संहरणतः सङ्ख्येयानि वर्षसहस्राणि ४

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244