Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 235
________________ २१३ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता स्थानयोः सङ्ख्यातगुणा इति वाच्यम् । एकस्मिन् स्थाने विशेषाधिका इति वाच्यम् । एतच्च पूर्वमेव सविस्तरं भावितम् । 'कम' इति ततः क्रमेण भरतत्रिकसिद्धाः विदेहविकसिद्धाश्च यथोत्तरं सङ्ख्यातगुणा वाच्याः । इदमुक्तं भवति–पुष्करार्द्धहरिवर्षसत्केभ्यः सिद्धेभ्यो जम्बूद्वीपभरतसिद्धाः सङ्ख्येयगुणाः १९ तेभ्यो धातकीखण्डभरतसिद्धाः सङ्ख्येयगुणाः २० ततः पुष्करार्द्धभरतसिद्धाः सङ्ख्येयगुणाः २१ ततो जम्बूद्वीपविदेहसिद्धाः सङ्ख्येयगुणाः २२ ततो धातकीखण्डविदेहसिद्धाः सङ्ख्यातगुणाः २३ ततः पुष्करवरद्वीपार्द्धविदेहसिद्धाः सङ्ख्यातगुणाः २४ । समानक्षेत्रेषु समानगिरिषु च निजनिजवर्वर्षधरैश्च समं तुल्या वाच्याः ॥३६।। ॥३७॥ गतं क्षेत्रद्वारम् । सम्प्रति कालद्वारमाहदुसमदुसमाइ थोवा, दूसमसंखगुण सुसमसुसमाए । अस्संखा पण छट्टे, अहिआ तुरिअंमि संखगुणा ॥३८॥ अवसप्पिणि अरएसुं, एवं ओसप्पिणीइ मीसेवि । परमवसप्पिणि दुस्समअहिआ सेसेसु दुसुवि समा २ ॥३९॥ अवसर्पिण्यां संहरणतो दुःषमदुःषमायां सिद्धाः स्तोकाः १ दुःषमायां सङ्ख्यातगुणाः २ तेभ्यः सुषमदुःषमायामसङ्ख्येयगुणाः कालस्यासङ्ख्येयत्वात् ३ 'पण छट्टे अहिआ' इति ततः पञ्चमारके सुषमाभिधे 'अधिका' विशेषाधिकाः ४ ततः षष्ठे सुषमसुषमाख्ये विशेषाधिकाः ५ तेभ्यः ‘तुरिये' चतुर्थे दुःषमसुषमारके सिद्धाः सङ्ख्यातगुणाः ६ ॥३८॥ एवमवसर्पिण्या अरकेषु गणितम् । उत्सर्पिण्या अरकेष्वप्येवमेव ज्ञेयम् । 'मीसेवि' इति अवसपिण्युत्सर्पिणीरूपे मिश्रेऽप्येवमेव, परं केवलमयं विशेषः-उत्सर्पिणीदुःषमारके 'अधिका' विशेषाधिका वाच्याः । द्वयोरप्यवसर्पिण्युत्सर्पिण्योः शेषेष्वरकेषु 'समाः' तुल्या वाच्याः । इदमुक्तं भवति-द्वयोरप्येकान्तदुःषमासिद्धाः सर्वस्तोकाः १ तत उत्सर्पिणीदुःषमारके सिद्धा विशेषाधिकाः २ ततोऽवसर्पिण्यां दुःषमासिद्धाः सङ्ख्येयगुणाः ३ ततो द्वयोरपि सुषमदुःषमासिद्धा असङ्ख्येयगुणाः ४ तेभ्योऽपि द्वयोरपि सुषमासिद्धा विशेषाधिकाः ५ तेभ्योऽपि द्वयोरपि

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244