Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
२०६
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता क्षेत्रद्वारे लोकाग्रे सिद्धशिलातललक्षणे सिद्धाः स्थिताः । इह मनुष्यक्षेत्रे बुन्दि शरीरं सर्वपरिशाटेन त्यक्त्वा , अलोके प्रतिहता लग्ना न परतोऽपि गमनं सम्भवति, धर्मास्तिकायाभावादिति ३ । स्पर्शनाद्वारे स्पृशत्यनन्तान् सिद्धान् स विवक्षितसमयसिद्धः सर्वप्रदेशैर्जीवसम्बन्धिभिर्ये तु तद्देशप्रदेशैः स्पृष्टास्तेऽसङ्ख्येयगुणाः । 'फुसइ अणंते सिद्धे, सव्वपएसेहिँ नियमसो सिद्धो। तेऽवि असंखिज्जगुणा, देसपएसेहिँ जे पुट्ठा ॥१॥ ४ ॥१८॥
जत्थट्ठसयं सिज्झइ, अट्ठ उ समया निरंतरं तत्थ । वीस दसगेसु चउरो, दु सेसि जवमज्झि चत्तारि ५ ॥१९॥
कालद्वारे चेयं परिभाषा सर्वेषु द्वारेषु यत्र यत्र स्थानेऽष्टशतं सिध्येत् एकसमयेनोक्तम्, तत्र तत्राष्टौ समयान् यावन्निरन्तरं कालो वाच्यः । यत्र यत्र विंशतिस्तत्र तत्र चतुरः समयान् यावन्निरन्तरं सिद्धिकालो वाच्यः । यत्रापि दश दश एकसमयेन सिध्यन्त उक्तास्तत्रापि चतुर: समयान् यावन्निरन्तरं कालः । शेषेषु स्थानेषु द्वौ समयौ । यवमध्ये चत्वारः । इदं सङ्क्षिप्ततरमुक्तम् । सम्प्रत्येतदेव मन्दमतिविनेयानुग्रहार्थं सविस्तरं पञ्चदशस्वपि द्वारेषु तदेव चिन्तयामः-तत्र क्षेत्रद्वारे पञ्चदशस्वपि कर्मभूमिष्वष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते । हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान् । नन्दनपण्डकवनयोर्लवणाब्धौ च द्वौ द्वौ समयौ १ । कालद्वारे उत्सपिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टावष्टौ समयान् शेषेषु चतुरश्चतुरः समयान् २ । गतिद्वारे देवगतेरागता अष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयान् ३ । वेद द्वारे पुरुषवेदा अष्टौ समयान् । स्त्रीनपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान् । पुरुषेभ्य उद्वृत्त्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् यावत् । शेषेषु चाऽष्टभङ्गेषु चतुरश्चतुरः समयान् ४ । तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे चातीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान् । तीर्थकरस्तीर्थकर्यश्च द्वौ समयौ ५ । लिङ्गद्वारे स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान् , गृहिलिङ्गे द्वौ समयौ
१. इतोऽग्रे ‘सङ्ख्यामधिकृत्य द्वितीयचतुर्थसमयादिषु अष्टशतं न्यूनमेव भवतीति ज्ञेयम्' इति लभ्यतेऽधिकम् ।
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244