Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
२१७
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
अडसमयसिद्ध थोवा, संखिज्जगुणा उ सत्तसमयाई १३ ।
अचुअ चुअतीसु थोवा, असंख संखा असंखा य ११ ॥४५॥ — अनुसमयद्वारे सर्वस्तोका अष्टसमयसिद्धाः, अष्टौ समयान् यावन्निरन्तरं सिध्यतां जीवानां स्तोकानामेव लभ्यमानत्वात् । ततः सप्तसमयसिद्धाः सङ्ख्येयगुणाः एवं समयसमयहान्या तावद्वाच्यं, यावद्विसमयसिद्धाः सङ्ख्येयगुणाः । एकसमयस्य तु तैरन्तर्याभावात् अत्रासम्भव १३ । उत्कृष्टद्वारे 'अचुअ' इति अच्युतसम्यक्त्वसिद्धाः स्तोकाः 'चुअतीसु' इति त्रिषु च्युतसम्यक्त्वेषु सङ्ख्यातकालच्युतसम्यक्त्वेष्वसङ्ख्यातकालच्युतसम्यक्त्वेष्वनन्तकालच्युतसम्यक्त्वेषु च यथोत्तरं असङ्ख्यातसङ्ख्यातासङ्ख्यातगुणत्वं वाच्यम् । अत्रायमर्थः-सर्वस्तोका अप्रतिपतितसम्यक्त्वसिद्धाः, ततः सङ्ख्येयकालप्रतिपतितसम्यक्त्वसिद्धा असङ्ख्येयगुणाः, तेभ्योऽसङ्ख्येयकालप्रतिपतितसम्यक्त्वसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽप्यनन्तकालप्रतिपतितसम्यक्त्वसिद्धा असङ्ख्येयगुणाः ११ ॥४५।।
एगो जा जवमझं, संखगुण परा उ संखगुणहीणा। छम्मासंता १२ लहु गुरु, मज्झ तणू थोव दुअसंखा १० ॥४६॥
अन्तरद्वारे षण्मासान्तरसिद्धाः स्तोकाः, तत एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः । ततो द्विसमयान्तरसिद्धाः सङ्ख्येयगुणाः । एवं तावद्वाच्यं यावद्यवमध्यम् । ततः परं सङ्ख्यातगुणहानिः सङ्ख्यातगुणहानिः तावद्वाच्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः सङ्ख्येयगुणहीनाः । अत्रायमाशयः-यवमध्यात्परतः सङ्ख्यातगुणहीनसङ्ख्यातगुणहीनास्तावद्वाच्या यावदेकसमयहीनषण्मासान्तरसिद्धाः सङ्ख्यातगुणहीनाः १२ । अवगाहनाद्वारे लघुतनुसिद्धाः स्तोकाः, ततो गुरुतनुसिद्धा असङ्ख्येयगुणाः, ततो मध्यतनुसिद्धा असङ्ख्येयगुणाः । अत्रायं विशेषः-सर्वस्तोकाः सप्तहस्तावगाहनाः सिद्धाः, ततः पञ्चधनुःशतप्रमाणावगाहनाः सिद्धा विशेषाधिकाः १० ॥४६॥
अट्ठसयसिद्धा थोवा, सत्तहिअ अणंतगुणिअ जा पन्ना । जा पणवीसमसंखा, एगंता जाव संखगुणा १४ ॥४७॥
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244