Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
२१८
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता गणनाद्वारे अष्टशतसिद्धाः स्तोकाः, तेभ्यः सप्ताधिकशतसिद्धा अनन्तगुणाः, एवमेकैकहान्याऽनन्तगुणास्तावद्वाच्या यावदेकपञ्चाशत्सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः । ततस्तेभ्यः एकोनपञ्चाशत्सिद्धा असङ्ख्येयगुणाः, ततोऽप्यष्टचत्वारिंशत्सिद्धा असङ्ख्येयगुणाः, एवमेकैकहान्या तावद्वाच्यं यावत् षड्विशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्ख्येयगुणाः । ततस्तेभ्यश्चतुर्विंशतिसिद्धाः सङ्ख्येयगुणाः, एवमेकैकहान्या तावद्वाच्यं यावद्विकसिद्धेभ्य एकैकसिद्धाः सङ्ख्येयगुणाः १४ ॥४७॥
सम्प्रत्यत्रैवाल्पबहुत्वद्वारे यो विशेषस्तमाहउम्मंथिअ उद्धट्ठिअ, उक्कडि वीरासणे निउंजे अ। पासिल्लग उत्ताणग, सिद्धा उ कमेण संखगुणा १५ ॥४८॥
सर्वस्तोका उन्मन्थितसिद्धाः अधोमुखसिद्धाः। ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गस्था वा वेदितव्याः १। तेभ्य ऊर्ध्वस्थितकायोत्सर्गसिद्धाः २, तेभ्यः उत्कटिकासनसिद्धाः २, तेभ्यो वीरासनसिद्धाः ४ तेभ्योऽपि न्युब्जासनसिद्धाः, न्युब्ज उपविष्ट एवाधोमुख द्रष्टव्यः ५, तेभ्यः पार्श्वस्थितसिद्धाः ६ तेभ्योऽप्युत्तानकस्थितसिद्धाः ७ । एते क्रमेण यथोत्तरं सङ्ख्येयगुणाः १५ ॥४८॥ तदेवमुक्तमल्पबहुत्वद्वारम् ।
सम्प्रति सर्वगताल्पबहुत्वविशेषोपदर्शनाय सन्निकर्षद्वारमुच्यते । तत्र सन्निकर्षो नाम संयोगो हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पत्वेन बहुत्वेन वाऽवस्थानरूपः सम्बन्धः
पणवीस पन्न अडसय, पण दस वीसा य ति पण दसगं च । संख असंख अणंत य, गुणहाणि चउटुआई ता ॥४९॥ इग दुग इग दुग चउ, बहुणंत बहु असंखणंतगुणहीणा। इय सिद्धाण सरूवं, लिहिअं देविंदसूरीहिं ॥५०॥
यत्र यत्राष्टशतं सिद्धा(सिध्य)दुपलभ्यते, तत्र तत्रेयं व्याप्तिः । सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244