Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
॥ अर्हम् ॥
श्रीमद्देवेन्द्रसूरिकृता श्रीसिद्धपञ्चाशिका
अवचूरिसमलङ्कृता
सिद्धं सिद्धत्थसुअं, नमिउं तिहुअणपयासयं वीरं । सिरिसिद्धपाहुडाओ, सिद्धसरूवं किमवि वुच्छं ॥१॥ संतपयपरूवणया, दव्वपेमाणं च खित्त फुसणा य । अ अंतरं तह, भावो अप्पाबहू दारा ॥२॥
'गाथे स्पष्टे । नवरं सिद्धं निष्ठितार्थं प्रसिद्धं शाश्वतं बद्धध्मातकर्माणं वा । सिद्धाः प्रतिष्ठिताः सत्यत्वेन केनाप्यचाल्याः, अर्था जीवाजीवादिपदार्थाः, श्रुते ४द्वादशाङ्गरूपे यस्य । अथवा सिद्धार्थाः सिद्धप्रयोजना मोक्षावाप्तेः सुता इव सुताः शिष्या “गणधरादयो यस्य ॥१॥ ॥२॥
एहिँ अणंतरसिद्धा, परंपरा सन्निकरिसजुत्तेहिं । तेहिं विआरणिज्जा, इमेसु पनरससु दारेसु ॥३॥
एभिः पूर्वोक्तैरष्टभिः सत्पदप्ररूपणादिभिद्वरैिरनन्तराः सिद्धा विचारणीयाः । परम्पराः सिद्धास्तु ‘तेहिं' तैः सत्पदप्ररूपणादिभिद्वरैिः सन्निकर्षयुक्तैर्नवभिर्द्वारैरित्यर्थः । न विद्यते समयेनाप्यन्तरं व्यवधानं येषां तेऽनन्तराः, सिद्धत्वप्रथमसमयवर्त्तिन इत्यर्थः । प्राकृतत्वाज्जसो लोपः । विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमये सिद्धः स परः, तस्यापि यस्तृतीयसमये सिद्धः ̈स परम्परः । एवमन्येऽपि वाच्याः । परम्परे च ते सिद्धाश्च परम्पर
१. 'गाथाद्वयं स्पष्टम्' इति । क्वचित्सर्वथापि नास्ति । २. 'सितं बद्धं ध्मातं कर्म न स तथा तं इति वा' इति क्वचित् । ३. 'जीवादयः' इत्यपि । ४. 'सिद्धान्ते' इत्यपि । ५. ‘गणधरादयः' इति क्वचित् नास्ति । ६. 'सिद्धार्थनरेन्द्रसुत इति वा ' क्वचिदित्यधिकम् । ७. 'स परः' इत्यपि ।
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244