Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
९
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
१९९ सिद्धाः । विवक्षितसिद्धत्वप्रथमसमयात्प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इत्यर्थः । सन्निकर्षो नाम संयोगः । हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा अवस्थानरूपः सम्बन्धः । उभयेऽपि सिद्धाः । केषु विषयेषु विचारणीयाः ? इत्याह-'इमेसु' इति एषु पञ्चदशसु द्वारेषु ॥३॥
तान्येवाहखित्ते काले गइ वेअ तित्थ लिंगे चरित्त बुद्धे य । नाणोगाहुक्कस्से, अंतरमणुसमयगणणअप्पबहु ॥४॥ 'उक्कस्से' इति उत्कर्षद्वारम् ॥४॥ प्रथमत एषु पञ्चदशसु द्वारेषु सत्पदप्ररूपणयाऽनन्तरसिद्धाश्चिन्त्यन्तेखित्ति तिलोगे १ काले, सिझंति अरेसु छसुवि संहरणा । अवसप्पिणि ओसप्पिणि, दुतिअरगे जम्मु तिदुसु सिवं २ ॥५॥
क्षेत्रद्वारे त्रिलोके । तत्रोर्ध्वलोके पण्डकवनादौ, अधोलोकेऽधोलौकिकग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे सिध्यन्तीति क्रिया सर्वत्र योज्या । संहरणात् समुद्रनदीवर्षधरादिष्वपि । तीर्थकृतः पुनः संहरणाभावात् अधोलौकिकग्रामेषु तिर्यग्लोके वा पञ्चदशसु कर्मभूमिषुरे १। कालद्वारेऽवसर्पिण्यामुत्सर्पिण्यां च षट्स्वप्यरकेषु सिध्यन्ति । देवादिकृतसंहरणादप्येवमेव । जन्माश्रित्य पुनरवसर्पिण्युत्सर्पिण्योर्यथासङ्ख्यं द्वयोस्त्रिषु चारकेषु जन्म । त्रिषु द्वयोश्च शिवं मोक्षः । अयमर्थः-अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीयचतुर्थारकयोः । सिद्धिगमनं तु एवमेव । परं केषांचित्पञ्चमारकेऽपि यथा जम्बूस्वामिनः । उत्सर्पिण्यां तु द्वितीयतृतीयचतुर्थारकेषु जन्म । सिद्धिगमनं तु तृतीयचतुर्थयोरेव । महाविदेहेषु पुनः कालः सदैव सुषमदुःषमारूप: तद्वक्तव्यताभणनेनैव भणितो द्रष्टव्यः । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुःषमादुःषमसुषमारूपयोरेवारकयोर्जेयम् २ ॥५॥
१. 'गीतिच्छन्दः' । २. इतोऽग्रे 'न शेषस्थानेषु' इत्यधिकं क्वचित् ।।
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244