Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
२०४
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता १तित्थयरी जिण पत्तेअबुद्ध संबुद्ध 'दु चउरे दसरे 'चउरो ५ । चउ दस अडसय 'गिहि पर, रेसलिंग ६ परिहार विणु ओहो ॥१४॥ दस परिहारजुए ७ बुद्धिबोहिथी वीस जीव वीस पहु ८ । चउ मइसुअ मइसुअमणनाणे दस सेस दुगि ओहो ९ ॥१५॥
तीर्थद्वारे तीर्थकर्यः १ जिनाः २ प्रत्येकबुद्धाः ३ स्वयंबुद्धाश्च ४ एकसमयेन सिध्यन्ति यथासङ्ख्यं द्वौ चत्वारो दश चत्वारः । उपलक्षणत्वादष्टशतमतीर्थकृताम् ५ । लिङ्गद्वारे गृहि १ पर २ स्व ३ लिङ्गे यथाक्रमं चत्वारो दशाष्टशतम् ६ । चारित्रद्वारे 'परिहार विणु ओहो' इति यत्र यत्र चारित्रभङ्गे परिहारविशुद्धिपदं न भवति तत्र तत्र ओघोऽष्टशतं सिध्यन्तीति ज्ञेयम् । इदमुक्तं भवति–सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणाम् , सामायिकच्छेदोपस्थापनीयसूक्ष्मसम्पराययथाख्यातचारित्रिणां च प्रत्येकमष्टशतम् ॥१४॥ परिहारविशुद्धिपदयुते भङ्गे दश दश । इदमुक्तं भवति–सामायिकपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणाम्, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां दश दश ७ । बुद्धद्वारे बुद्धीबोधिताः स्त्रियो विंशतिरेकसमयेन सिध्यन्ति । तथा बुद्धिबोधितजीवानां पुंस्त्रीषण्ढविशेषितानां विंशतिपृथक्त्वम् । अयं च सिद्धप्राभृतोक्तो विशेषः । बुद्धबोधितानां पुरुषाणामष्टशतम् । स्त्रीणां विंशतिः । नपुंसकानां दशकम् । प्रत्येकबुद्धानां दशकम् ८ । ज्ञानद्वारे पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनश्चत्वारः । मतिश्रुतमनःपर्यायज्ञानिनो दश । शेषभङ्गद्विके मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिन इत्येवंलक्षणे ओहो' इति अष्टशतं सिध्यतीति ९ ॥१५॥ मज्झ गुरु लहुँवगाहण, अडसय दुग चउर अट्ठ जवमझे १० । चुअणंतकालसम्मा, अडसय चउ अचुअ दस सेसा ११ । १२ ॥१६॥ ___अवगाहनाद्वारे मध्यावगानायामष्टशतम् । उत्कृष्टायां द्वौ । लघ्व्यां चत्वारो युगपत्सिध्यन्तीति । अष्टौ यवमध्ये । यवमध्यं नाम उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं (सार्ध)द्विषष्ट्युत्तरद्विशतधनूंषि । एवमग्रेऽपि समाधस्य यवमध्यमिति सज्ञा ज्ञेया १० । उत्कृष्टद्वारे अनन्तकालच्युतसम्यक्त्वा अष्टशतम् । अच्युतसम्यक्त्वाश्चत्वारः । शेषा असङ्ख्यातकाल
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244