Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२०३
अ वीसा अहोलोए" इत्युत्तराध्ययने उक्तम् । तदत्र तत्त्वं ज्ञानिनो विदन्ति । पृथक्त्वं द्विप्रभृतिरानवभ्यः ||९|| एकस्मिन् विजये २० पञ्चदशकर्मभूमिषु प्रत्येकं १०८ तिर्यग्लोकेऽप्येवं सिध्यन्ति । सामान्यतः समुद्रे पण्डकवने च द्वौ द्वौ । अकर्ममहीषु हैमवत ५ हरिवर्ष ५ देवकुरु ५ उत्तरकुरु ५ रम्यक ५ ऐरण्यवत ५ रूपासु त्रिंशत्सङ्ख्यास्वपि संहरणं प्रतीत्य दश दश सिध्यन्ति १
॥१०॥
ति चउत्थ अरे अडसय, पंचमए वीस दस दस य सेसे २ । नरगतिग भवण-वण- नर - जोइस - तिरि - तिरिखिणी दसगं ॥ ११ ॥ माणिr असयं, हरिय छऊ पंकपुढविजल चउरो । जोइविमाणिनरित्थी, वीसं भवणवणथी पणगं ३ ॥ १२ ॥
कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतम् । सामान्योक्तावपि “व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् अवसर्पिण्यां पञ्चमारके विंशतिः । 'सेसे' इति जातावेकचवनम् । ततः शेषेष्वरकेषु प्रत्येकं उत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश दश २ । गतिद्वारे नरकत्रिकात् रत्नशर्करावालुकाप्रभालक्षणात् भवनपत्यादिभ्य आगता दश दश सिध्यन्ति ॥११॥ वैमानिकेभ्योऽत्रागता अष्टशतम् । वनस्पतिभ्यः षट् । पङ्कप्रभायाश्चतुर्थनरकपृथिव्याः पृथिव्यप्कायाभ्यां च प्रत्येकं चत्वारः । ज्योतिष्कादीनां त्रयाणां स्त्रीभ्यो विंशतिर्विंशतिः, व्यन्तरस्त्रीभ्यो भवनपतिस्त्रीभ्यश्चागताः पञ्च पञ्च सिध्यन्तीति शेषः । जघन्यतो नरकत्रिकादिषु एको वा द्वौ वा त्रयो वा । उत्कर्षतो दशेति सर्वत्र ३ ॥१२॥
वीसत्थि दस नपुंसग, पुरिसट्ठसयं नरा नरुव्वट्टा | इय भंगे असयं, दस दस सेसट्ट भंगेसु ४ ॥ १३॥
"
वेदद्वारे स्त्रियोविंशतिः इत्यादि । तथा नरा देवादिपुरुषाः नरेभ्यो देवादिपुरुषेभ्य उद्धृत्ता इति आद्यो भङ्गः १, स्त्रीभ्यो नराः २, षण्ढेभ्यो नराः ३ इति भङ्गत्रयम् । एवं स्त्रीनपुंसकयोरपि भङ्गत्रयम् । सर्वे नव । तत्राद्यभङ्गे अष्टशतम् । शेषेषु अष्टभङ्गेषु दश दश ४ ॥१३॥
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244