________________
१४
साहित्यदर्पणे
तत्त्रात् । ' रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाऽप्ययुक्तम् । तथाहि तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् । अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् । गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसां वित्येव वक्तुं युक्तम्, न सगुणाविति । नहि प्राणिमन्तो ते गुणाः" इति तेन एव = काव्यप्रकाशकारेण एव प्रतिपादितत्वात् = साधितत्वात् । तथा च काव्यलक्षणकोटावङ्गिनो रसस्य सद्भाव आवश्यको न त्वङ्गभूतस्य गुणस्येति भावः । लक्षणे पुनः 'सगुण' पदसद्भावं समर्थयते - रसाऽभिव्यञ्जकत्वेनेति । रसानां= शृङ्गारादीनाम्, अभिव्यञ्जकत्वेन = अभिव्यजन कर्तृत्वेन, उपचारतः = परम्परासम्बन्धेन, उपपद्यते = उपपन्नं भवति, शब्दार्थयोः सगुणत्व विशेषणमिति शेषः । इति चेत्, खण्डयितुमुपक्रमते - तथाऽप्ययुक्तमिति ।
तथाऽपि = उपचारतोऽपि, अयुक्तम् = अनुपपन्नम् । काव्य स्वरूपत्वेन = काव्यलक्षण· त्वेन, अभिमतयोः = सम्मतयोः, तयोः शब्दार्थयोः = वाचकवाच्ययोः, रसः = शृङ्गारादिः, अस्ति = वर्तते, न वा = नो वर्तते वा । आदौ द्वितीयदलं प्रदर्श्य निराकरोति - नाऽस्ति चेत = शब्दाऽर्थयोः रसो नाऽस्ति चेत् = नो वर्तते इति यदि, तर्हि = तदा, गुणवत्स्वमपि गुणसहितत्वम् अपि नास्ति = नो वर्तते, गुणांनां = माधुर्यादिगुणानां; तदन्वय- व्यतिरेकानुविधायित्वात् = रसाऽन्वयव्यतिरेकाऽनुसारित्वात् । तत्सत्त्वे तत्सत्त्वम् अन्वयव्याप्तिः, तदभावे तदभावो व्यतिरेकव्याप्तिः । एवं च रससत्त्वे गुणसत्त्वं रसाऽभावे गुणाभाव इत्यन्वयव्यतिरेकव्याप्तिभ्यामिति भावः ।
=
पूर्वदलं प्रदशयपालभते - अस्तीति । प्रस्तीति चेत् = शब्दाऽर्थयो रसो वर्तते यदि ? कथं शब्दार्थयोः "रसवन्ती" इति विशेषणं, नोक्तं = नाऽभिहितम् ।
-
काव्यप्रकाशका रमतं समयं पुनर्दूषयति – गुणेति । गुणवत्त्वाऽन्यथाऽनुपपत्या = गुणवत्वस्य ( गुणसहितत्वस्य ), अन्यथा ( रूगन्तरेण = रसव्यतिरेकेणेति भावः ) प्रकाशकार ने ) ही कहा है । अपने आश्रय रसके अभिव्यञ्जक होने से परम्परा सम्बन्ध से शब्द और अर्थ भी सगुण होते हैं. ऐसा कहें तो, वह भी अनुचित है-जैसे कि काव्यके लक्षण के तौर पर अभिमत शब्द और अर्थ में रस रहता है कि नहीं ? नहीं रहता है तो गुण भी नहीं रह सकते हैं, क्योंकि अन्वय व्यतिरेक सहचारसे रसमें गुण रहते हैं शब्द और अर्थमें रस है तो "रसवन्ती" ऐसा विशेषण क्यों नहीं दिया ? यदि कहें कि विना रसके गुणोंके नहीं रहने से "सरसी" ऐसा अर्थ आ ही जाता है, तो भी "सरसी" ही कहना चाहिए न कि " सगुणी " । क्योंकि "प्राणिमान् देश है" ऐसा सूचित करने के लिए शौर्यादिमान् देश है" ऐसा कोई भी नहीं कहता है । यद्यपि शौर्य प्राणीमें रहता है तथाऽपि ऐसा प्रयोग कोई नहीं करता है ।