Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 599
________________ ५१० साहित्यदर्पणे भर्तुर्विप्रताप रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेफिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥' गुणातिपातः कार्यं द्विपरीतं गुणान्प्रति ।। १८४ ।। यथा मम चन्द्रकलायां चन्द्रं प्रति 'जइ संहरिज्जइ तमो धेय्यइ सअलेहिं ते पाओ । ससि सिरे पसुबहणो त हवि ह इत्थीअ जीअणं हरसि ॥' पत्नीजने प्रियसखीवृत्ति - प्रियसख्या: ( अभीष्टवयस्यायाः ) वृत्ति ( व्यवहारम् ), - कुरु = विधेहि । विप्रकृता अपि = अपकृता अपि, रोषणतया कोपनत्वेन, भर्तुः = पत्युः, प्रतीपं = प्रतीकूलतां मा स्म गमः नो गच्छ, "स्मोत्तरे लङ् चे "ति स्मोत्तरे माङि - लुङ् । परिजने = सेवकजने, भूयिष्ठम् = अतिशयं, दक्षिणा - उदाराशया, भव = एधि, तथा भोगेषु = विषयोपभोगेषु, अनुत्सेकिनी = गर्वरहिता भव । एवम् इत्थं कृते -सतीति शेषः । युवतयः = तरुण्यः, गृहिणीपदं = सद्गेहिनीस्थानं, यान्ति = प्राप्नुवन्ति; यामाः = प्रतिकूलाः, एतद्विपरीतकारिण्यः स्त्रिय इति भावः । कुलस्य = वंशस्य; -आधय: = मनोव्यथा कारिप्यः भवन्तीति शेषः । अत्र धर्मशास्त्रानुसारं मनोहरवाक्यत्वादुपदिष्टम् । (४ - १७) शार्दूलविक्रीडितं वृत्तम् । I गुणाऽतिपातं लक्षयति-गुणाऽतिपात इति । गुणान् प्रति, यत् विपरीतं = प्रतिकूलं कार्यं कृत्यं स " गुणाऽतिपातः । १८४ ॥ = = गुणाऽतिपादमुदाहरति- यथेति । 'यदि संह्रियते तमो गृह्यते सकलस्त पादः । - वससि शिरसि पशुपतेस्तथाऽपि हा ! स्त्रिया जीवनं हरसि" इति संस्कृतच्छाया । विरहिणी चन्द्रमुपालन - तमः अन्धकारं संह्रियते यदि=निराक्रियते चेत्, स्वयेति शेषः, : सकलैः = समस्तैर्जनैः, ते तब, पादः - किरणश्चरणश्च पादा रश्म्यङ्घ्रितुयशाः " इत्यमरः । गृह्यते = स्वीक्रियते, शिरसा धार्यंत इति भावः । पशुपतेः शङ्करस्य, शिरसि = मस्तके, वससि वासं करोषि तथाऽपि स्त्रियाः = नार्याः, वियोगिन्या इति भाव: । जीवनं = जीवितं हरसि = नाशयति, कामोद्दीपनेनेति शेषः । अत्र चन्द्रस्य आदिपूज्यजनोंकी शुश्रूषा करो, सीतमें प्रिय सखीके समान व्यवहार करो, पतिसे अपकृत होनेपर भी प्रतिकूल मत बनो। परिजन ( सेवक ) में अतिशय उदार होओ और भाग्य में गर्व मत करो। युवतियाँ इस प्रकार गृहिणीके पदको प्राप्त करती है, इसके विपरीत आचरण करनेवाली कुलकी मनोव्यथाको उत्पन्न करती हैं । गुणातिपात-गुणोंके प्रति विपरीत कार्यको "गुणाऽतिपात" कहते हैं ।। १८४ ॥ जैसे ग्रन्थकारको चन्द्रकला ( नाटिका ) में विरहिणी स्त्री चन्द्रको कहती है( हे चन्द्र ! ) तुम अन्धकारको हटाते हो तो सब लोग तुम्हारे पाद ( किरण वा चरण ) =

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690