________________
द्वितीयः परिच्छेदः
६७
'अशङ्खचक्रो हरिः' इति तद्वियोगेन तमेव । 'भीमार्जुनौ' इति अर्जुनः पार्थः। 'कर्णार्जुनौ' इति कर्णः सूतपुत्रः। 'स्थाणुं वन्दे' इति स्थाणुः शिवः। 'सर्व जानाति देवः' इति देवो भवान् । 'कुपितो मकरध्वजः' इति मकरध्वजः कामः । 'देवः पुरारिः' इति पुरारिः शिवः। 'मधुना मत्त पिकः' इति मधु
"भीमाऽर्जुनो" इत्यत्र अर्जुनपदस्य "अर्जुनः ककुभे पार्थ कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्वाद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे" इति अनेकार्थत्वेऽपि भीमसाहचर्येण अर्जुनः पार्थः, तृतीयपाण्डव इति भावः । “कर्णाऽर्जुनी" इत्यत्र “कर्णः प्रयासुते ज्येष्ठे सुवर्णालो श्रुतावपि ।" इति मेदिनीकोशतोऽनेकाऽर्थत्वेऽपि विरोधितया कर्ण: सूतपुत्रः । “स्थाणु वन्दे' इत्यत्र स्थाणुपदस्य "स्थाणुः कीले हरे पुमान् अस्त्री ध्रुवे” इति मेदिनीकोशतोऽनेकाऽर्थत्वेऽपि वन्दनरूपप्रयोजनात् स्थाणुः शिवः ।
" "सर्व जानाति देवः' इत्यत्र देवशब्दस्य "देवः सुरे धने राजि" इति विश्वकोशतोऽनेकाऽर्थत्वेऽपि प्रकरणाद्देवो भवान् ।
"कुपितो मकरध्वज' इत्यत्र मकरध्वजशब्दस्य कामदेव-समुद्रवाचकत्वेऽपि कोपरूपाल्लिङ्गात् ( चिह्नात् ), मकरध्वजः कामो न तु अचेतनः समुद्रः ।
'देवः पुरारिः" इत्यत्र 'पुरारि" पदस्य त्रिपुरारि ( शिव ) वाचकत्वमथवा शत्रुनगराऽरिवाचकत्वमिति सन्देहे "देव" इति अन्यशब्दस्य सान्निध्यात्, पुरारिः शिवः ।
__ "मधुना मत्तः पिक' इत्यत्र "मधु" पदस्य "मधुपद्य पुष्परसे क्षौद्रेऽपि" इति कोशादने काऽर्थत्वेऽपि पिकमादनसामर्थ्यात् मधुर्वसन्तः ।
___"भीमाऽर्जुनो" यहाँपर अर्जुन पदके अर्थ वृक्षविशेष, शुक्लगुण आदि अनेक हैं परन्तु भीमके साहचर्य (सहचारित्व) से अर्जुनका अर्थ पार्थ (पृथापुत्र ) ज्ञात होता है ।
__ "कर्णाऽर्जुनौ" यहांपर अर्जुनसे विरोधके कारण 'कर्ण' पदसे सूतपुत्र कर्णका बोध होता है कानका नहीं।
"स्थाणु वन्दे" यहांपर "वन्दे" इस क्रियापदके योगमें वन्दनरूप तात्पर्यसे "स्थाण"से "शङ्कर" लिये जाते हैं खम्भा आदि नहीं ।
"सर्व जानाति देवः" यहाँपर देव शब्दका देवता राजा आदि अनेक अर्थ होनेपर भी प्रकरणसे "आप" ऐसा अर्थ होता है, आप सब जानते हैं यह भाव है।
"कुपितो मकरध्वजः" यहाँपर कोपरूप लिङ्ग (चिह्न) से मकरध्वजका अर्थ समुद्र आदि नहीं होता है, समुद्र अचेतन है; उसका कोप संभव नहीं, अतः "कामदेव" ऐसा अर्थ लिया जाता है।
"देवः पुराऽरिः" यहाँपर पुर पदका अर्थ देह और नगर भी है परन्तु अन्य. पसान्निध्य अर्थात् "देव' पदके सान्निध्यसे त्रिपुरके शत्रु शङ्कर ऐसा अर्थ होता है।
मधु पदके मा, पुप्परस और शहद आदि अनेक अर्थ होते हैं परन्तु "मधुना मतः पिकः" यहाँपर कोयलोंये नादन में सामर्थने 'मधु' पदका अर्थ क्रान्त होता है।