SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः इति । उक्तं च आचार्यः “भैष स्थाणोरपराधो यदेनमन्धो न पश्यति" इति ॥ ह.-कैश्चिन्मन्त्राणामेव वेदत्वमाख्यातं । कैश्चित्कल्पसूत्राणामपि । उभयनिरासार्थोयमारम्भः । सकलस्य वेदराशेः पारायणादिषु उपसङ्गहणं प्रयोजनम् ॥ . ३४. क-तत्र मन्त्रव्राह्मणयोविवेकायाह--कर्मचोदना ब्राह्मणानि ॥ साङ्गानि कर्माणि चोदयन्ति विदधति यानि यानि वाक्यानि तानि चोदनाः । तानि ब्राह्मणानि स्वर्गकामो यजेत' 'वायव्य श्वेतमालभेत भूतिकाम:, श्रीहीनवहन्ति ' इत्येवमादीनि ॥ ह.-कर्म चोदते विधीयते याभिस्ता: कर्मचोदनाः । 'वायव्य श्वेतमालभेत' इत्यादयः । ता: ब्राह्मणानीत्युच्यन्ते ॥ ३५-३६. क-यदि कर्मापदेशानि ब्राह्मणानि, कर्माणि न चौद्यन्ते [यैः] यथा वायुर्वे क्षेपिटा' इति । यथातिथये प्रद्रुताय' 'यजमान मेव सूवर्ग लोकं गमयति अग्निा अकामयत वसवो वा अकामयन्त ' ' आपो वा इदमने सलिलमासीत् । इत्यादिभिः तेषामब्राह्मणत्वं प्राप्नोति । अत इद मुच्यते--ब्राह्मणशेषोथवादः॥ ब्राह्मणस्य विधायकस्य शेषः अङ्गमुपकारकं अर्थवादः। ‘वायुर्वै क्षेपिष्टा' इत्यर्थवादः। 'यथातिथये' इति निन्दा । यजमानमेव सुवर्ग लोकं गमयति' इति प्रशंसा । 'अग्निवा इति 'वसवों वा' इति परकृतिः । बहुपुरुषकर्तृकं पुराकल्प इति केचित् । 'आपो वा इदमग्रे सलिलमासीत् । इत्येषः अनिर्दिष्टकर्तृकः पुराकल्प For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy