Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 9
________________ श्रीहरिभद्रसूरिविरचितः षड्दर्शनसमुच्चयः मणिभद्रकृतया टीकया समलङ्कृतः सज्ज्ञानदर्पणतले विमलेऽत्र यस्य ये केचिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥१॥ जैनं यदेकमपि बोधविधायिवाक्य मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः श्रीमान्स नन्दतु चिरं हरिभद्रमुरिः ॥२॥ सन्निधेहि तथा वाणि ! षड्दर्शनाङ्कषड्भुजे । यथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३॥ व्यासं विहाय संक्षेपसचिसत्वानुकम्पया। टीका विधीयते स्पष्टा पडदर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रमूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ अर्थों निगद्यतेऽभिधीयत इति सम्बन्धः, अर्थशब्दोऽत्राभिधेयवाचको ग्राह्यः।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85