Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 36
________________ २८ सटीके षड्दर्शनसमुच्चये तदेवाह - एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३४॥ एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां लाघवोपटम्भगौरवधर्माणां सत्वरजस्तमसां त्रयाणामपि गुणानां या साम्यावस्था समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते, अन्यच्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानाव्यक्तशब्देन च प्रकृतिराख्यायते, शास्त्रे प्रकृतिः प्रधानमव्यक्तं चेति पर्याया न तत्त्वान्तरमित्यर्थः तथा नित्यस्वरूपिका शाश्वतभावतया प्रसिद्धेत्यर्थः, उच्यते च नित्या नानापुरुषाश्रया च तद्दर्शनेन प्रकृतिर्यदा ह— , तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिरिति ॥ ३४ ॥ दर्शनस्वरूपमाह सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ||३५|| केचित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः केचित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधिष्ठातारमाहुः सर्वेषामिति । तेषां केवल नित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पञ्चविंशतिः स्यात्, तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः । " यदुक्तम् — पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः । तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ॥ ३५ ॥ गुणत्रयमाह - सत्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोष दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85