Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 71
________________ जैमिनीयमतम् । मुण्डभूतले घटाभावमाश्रित्येति चेद् ? मैवम्-घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः। तदुक्तम् 'न तावदिन्द्रियेणैषां नास्तीत्युत्पद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ इति नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य, केवलंभावांश इन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणागोचरसञ्चरिष्णुतामनुभवन्नावालगोपालाङ्गनाप्रसिद्ध व्यवहारं प्रवर्त्तयति, अभावांशस्तु प्रमाणपञ्चकविषयबहिर्भूतत्वात्केवलभूतलग्रहणाधुपयोगित्वादभावप्रमाणव्यपदेशमश्नुत इति सिद्धमभावस्यापि युक्तियुक्ततया प्रामाण्यमिति ॥७६॥ उपसंहरन्नाहजैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः। एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७॥ अपिशब्दान्न केवलमपरदर्शनाना, जैमिनीयमतस्याप्ययं सङ्केपो निवेदितः कथितः, वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्केप एव प्रोक्तोऽस्ति। ___अथ सूत्रकृत्सम्मतसङ्केपमुक्त्वा निगमनमाह-एवमिति । . एवमित्थम् , आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसायजेनवैशेषिकजैमिनीयानां सङ्केपकीर्तनं कृतं, सङ्केपेण वक्तव्यमभिहितमित्यर्थः ॥ ७७॥ विशेषान्तरमाह नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८॥ अन्य आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षयाऽऽस्तिकवादिनः पञ्चैव ॥ ७८ ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85