Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 33
________________ न्यायमतम् । प्रतिज्ञातार्थप्रतिपेथे परेण कृते तत्रैव धर्मिणि धर्मान्तरसाधनमभिदधतः प्रतिज्ञाऽन्तरनाम निग्रहस्थानं भवति, अनित्यः शब्द, ऐन्द्रियिकवादित्युक्ते तथैव सामान्येनैव व्यभिचारणोदिते यदि त्याद् युक्तं सामान्यमैन्द्रियिकं नित्यं तद्धि सर्वगतम सर्वगतस्तु शब्द इति, सोऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति प्रतिज्ञाऽन्तरेण निगृहीतो भवति । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधनाम निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेत्वोविरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं . द्रव्यमिति तदयं प्रतिज्ञाहेत्वोविरुद्धाभिधानात्पराजीयते । पक्षसाधने परेण दूषिते तदुद्धरणासक्त्या प्रतिज्ञामेव निवानस्य प्रतिसंन्यासनाम निग्रहस्थानं भवति, यथा-अनित्यः शब्द ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह नित्यः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति । अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरनाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगे तथैव सामान्येऽस्य व्यभिचारेण दूषित जातिमत्त्वे सतीत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । प्रकृतादर्थान्तरं तदोपयिकमभिदधतोऽर्थान्तरनाम निग्रहस्थानं भवति, नित्यः शब्दः कृतकत्वादिति हेतुः, हेतुहिनोतेर्धातोस्तुनत्यये कृदन्तं पदम् , पदं च नाम तद्धितनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति । ____ अभिधेयरहितवर्णानुपूर्वीप्रयोगमानं निरर्थकनाम निग्रहस्थानं भवति, यथा नित्यः शब्दः कचतटपानां गजडदवत्त्वाद् घझढधभवदित्येतदपि सर्वथाऽर्थशून्यत्वान्निग्रहणाय कल्पेत साध्यानुपयोगाद्वा।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85