Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 57
________________ जैनमतम् । प्रमाणे आहप्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥ तथेति प्रस्तुतमतानुसन्धाने, द्वे प्रमाणे मते अभिमते, के ते इत्याह-प्रत्यक्षं च परोक्षं चेति । अश्नुतेऽक्ष्णोति वा व्यामोति सकलद्रव्य क्षेत्रकालभावानित्यक्षो जीवोऽश्नुते विषयमित्यक्षमिन्द्रियं च, अक्षमक्षं प्रतिगतं प्रत्यक्षमिन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः, अवधिमनःपर्याय केवलज्ञानानि तद्भेदाश्च प्रत्यक्षमेव, अत एव सांव्यवहारिकपारमार्थिकैन्द्रियिकातीन्द्रियिकादयो भेदा अनुमानादधिकज्ञान विशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति । परोक्षं चेति । अक्षाणां परं परोक्षम् अक्षेभ्यः परतो वर्तत इति वा, परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम् , अमुयैव भङ्गया मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे। प्रमाणमुक्त्वा तद्गोचरमाह-तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोविषयो गोचरो ज्ञेय इत्यध्याहारः । किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति । वस्तुतत्त्वं पदार्थस्वरूपं, किंविशिष्टम् ? अनन्तधर्मकम् अनन्तात्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्याया यत्रेति, अनेन साधनमपि दर्शितं तथा हि-सत्त्वमिति धर्मि; अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोरन्ताप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मकं न भवति तत् सदपि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिबिक्षिप्तत्वेनान्वयायोगात् । अनन्तधर्मात्मकत्वं चात्मनि तावत्साकारानाकारोपयोगिता

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85