Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 82
________________ ७६ षड्दर्शनसमुच्चयः । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थः तत्राभावप्रमाणता ॥ ७६ ॥ जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः। एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८ ॥ षड्दर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥ चार्वाकमतम्लोकायता वदन्त्येवं नास्ति देवो न नितिः। धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥ ८०॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥ ८१ ॥ पिब खाद च जातशोभने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ ८२॥ किं च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ॥ पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽङ्गेभ्यो यद्वत्तद्वस्थितात्मता ॥ ८४ ॥ तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८५ ॥ साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां सा चाकाशात् परा न हि ॥ ८६ ॥ लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ ८७॥ इति षड्दर्शनसमुच्चयः।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85