Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 54
________________ सटीके षड्दर्शनसमुच्चये तिरिनिरय दुगारजाईव मचऊकं नामचउतीसा ॥ नरयाउनीयअस्सायघाइपणयालसहिवासी ' ॥ इति । पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो व्यशीतिः । वर्णचतुष्कस्य तु शुभाशुभ रूपेणोभयत्रापि सम्बध्यमानत्वान्न दोषः, यस्तै मिथ्यादर्शनादिभिर्बन्धः कर्मबन्धः स जिनशासन आश्रवो विज्ञेयः, आश्रवतन्त्रं ज्ञेयमित्यर्थः, तत्प्रकृतयश्च द्वाचत्वारिंशत्, तथा हि- पञ्चेन्द्रियाणि चत्वारः कपायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिकयादय इत्याश्रवः ॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्म सम्बन्धो यो द्वयोरपि ॥ ५१ ॥ तु पुनस्तनिरोध आश्रवद्वारप्रतिरोधः संवरतत्त्वं संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा ४६ , संमिइगुत्तिपरी सहजइधम्मभावणाचरिताणि । पण तिगदुवी सदसवार हपञ्चभेएहिं सगवणा || पञ्च समितयस्तिस्रो गुप्तयो, द्वाविंशतिः परीषहा, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः, बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परक्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धनाम तत्त्वमित्यर्थः सच तुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात् 'स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः ॥ इत्यादिः सम्बन्धो ज्ञेयः ॥ ५१ ॥ निर्जरामोक्षौ चाह बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ - १. समितिगुप्तिपरीषहयतिधर्मभावनाचरित्राणि । पञ्चत्रिद्वाविंशतिदशद्वादशपञ्चभेदैः पञ्चाशत् ॥

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85